सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
रत्नावल्यलंकारः ७४ ] अलंकारचन्द्रिकासहितः। १


 अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्वरूपसूच्यार्थसूचनं मुद्रा । यद्यप्यन्त्र ग्रन्थे वृत्तनाम्नो नास्ति सूचनीयत्वं तथाप्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनीयत्वमस्तीति तदभिप्रायेण लक्षणं योज्यम् । एवं नवरत्नमालायां तत्तद्गत्ननामनिवेशेन तत्तन्नामकजातिसूचनम् । नक्षत्रमालायामन्यादिदेवतानामभिर्नक्षत्रसूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि॥१३९॥


रत्नावल्यलंकारः ७४

[]मिकं प्रकृतार्थानां न्यासं रत्नाव[]ली विदुः।
चतुरायः पतिलेक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १४० ॥

 अत्र चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्वात्मता प्रतीयत इति प्रसिद्वसहपाठानां क्रमेण निवेशनं रस्त्रावली । यथावा---

रत्याप्तप्रियलाल्छने कठिनतावासे रसालिङ्गिते
 प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे ।
कोकस्पर्धिनि भोगभाजि जनितानङ्गे खलीनोन्मुस्वे
 भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने ॥


विपुलं यस्याः सा । अत्र ग्रन्थे अस्मिन्नलंकारग्रन्थे । रत्नमालाशब्देन भगवत्स्तुतिपद्यावलीविशेष उच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तन्नामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमित्तरत्नजातिसूचनम् । नक्षत्रमालाशब्दार्थोऽपि पूर्वोक्त एव । अन्यादिदेवतानाममिनक्षत्राणां तदैवत्यानां सूचनं बोध्यम् ॥ वक्ष्यमाणेति ॥ यथा अनर्घराघवे यान्ति न्यायप्रवृत्तस्य तिर्यच्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥' इति सूत्रधारबचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचनमिति बोध्यम् ॥ १३९ ॥ इति मुद्रालंकारः ॥ ७३ ॥

 क्रमिकमिति ॥ प्रकृतार्थानां क्रमिकं प्रसिद्धक्रमानुसारि न्यसनं प्रतिपादनं रत्नावलिरलंकारः। प्रकृतत्वं च यथाकथंचित्प्रकृतसंबन्धवत्त्वं बोध्यम् ॥ चतुरेति ॥ चतुरमास्यं यस्य सः चतुर्मुखश्च ॥ रत्याप्तेति ॥ हे बाले, भवत्याः स्तने श्रीरमणस्य विष्णोरवतारदशकं भातीत्यन्वयः । कीदशे । रतावाप्तं प्राप्तं प्रियस्य लाञ्छनं चिह्नं नखक्षताङ्गरागादिकं येन तथाभूते । कठिनताया आवासे स्थानभूते । रसेनालिङ्गिते । प्रकृताह्लादे एकरसे तत्परे । क्रमाद्वदरामलकादिपरिमाणलामेनोपचिते प्रवृद्धे भूभृतां पर्वतानां गुरुखमपहन्ति नाशयति ताहशे, ततोऽपि महत्त्वात् चक्रवाकस्पर्धाशीले तत्सदृशत्वात् । भोगः सुखं शरीरं वा तद्भाजि । जनितमदने । खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिंस्तादृशे । एतैरेव विशेषणैरवतारदशकरूपतापि स्तनस्य बोध्या । तद्यथा-रत्या आप्तः प्रियः


  1. 'क्रमिका'
  2. 'रत्नावली'