पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रत्नावल्यलंकारः ७४ ] अलंकारचन्द्रिकासहितः। १४७ अत्र नायिकावर्णनपरेण युग्मविपुलापदेनास्यानुष्टुभो युग्मविपुलानामत्व- रूपसूच्यार्थसूचनं मुद्रा । यद्यप्यन्त्र ग्रन्ये वृत्तनाम्नो नास्ति सूचनीयत्वं तथा- प्यस्योत्तरार्धस्य लक्ष्यलक्षणयुक्तच्छन्दःशास्त्रमध्यपातित्वेन तस्य सूचनीयत्व- मस्तीति तदभिप्रायेण लक्षणं योज्यम् । एवं नवरत्नमालायां तत्तद्गत्ननामनि- वेशेन तत्तन्नामकजातिसूचनम् । नक्षत्रमालायामझ्यादिदेवतानामभिर्नक्षत्र- सूचनमित्यादावयमेवालंकारः । एवं नाटकेषु वक्ष्यमाणार्थसूचनेष्वपि॥१३९॥ रत्नावल्यलंकारः ७४ ऋमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः। चतुरायः पतिलेक्ष्म्याः सर्वज्ञस्त्वं महीपते ॥ १४.० ॥ __ अत्र चतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्वात्मता प्रतीयत इति प्रसि- द्धसहपाठानां क्रमेण निवेशनं रखावली । यथावा- रत्याप्तप्रियलाल्छने कठिनतावासे रसालिजिते प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे । कोकस्पर्धिनि भोगभाजि जनितानले खलीनोन्मुखे भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने । विपुलं यस्याः सा । अत्र अन्थे अस्मिन्नलंकारग्रन्थे । रनमालाशब्देन भगवत्स्तु- तिपद्यावलीविशेष उच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तनामकजातिसूचनं तत्तन्नामप्रवृत्तिनिमित्तरत्नजातिसूचनम् । नक्षत्रमालाश- ब्दार्थोऽपि पूर्वोक्त एव । अन्यादिदेवतानाममिनक्षत्राणां तदैवत्यानां सूचनं बो- ध्यम् ॥ वक्ष्यमाणेति ॥ यथा अनर्घराघवे यान्ति न्यायप्रवृत्तस्य तिर्यच्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥' इति सूत्रधार- बचनेन वक्ष्यमाणरामरावणवृत्तान्तसूचनमिति बोध्यम् ।। १३९ ॥ इति मुद्रालं- कारः ॥ ७३ ॥ क्रमिकमिति ॥ प्रकृतार्थानां क्रमिकं प्रसिद्धक्रमानुसारि न्यसनं प्रतिपादन रत्नावलिरलंकारः। प्रकृतत्वं च यथाकथंचित्प्रकृतसंबन्धवत्वं बोध्यम् ॥ चतुरे. ति ॥ चतुरमास्यं यस्य सः चतुर्मुखश्च ॥ रत्याप्तेति ॥ हे बाले, भवत्याः स्तने श्रीरमणस्य विष्णोरवतारदशकं भातीत्यन्वयः । कीदशे । रतावाप्त प्राप्त प्रियस्य लाञ्छनं चिह्न नखक्षताङ्गरागादिकं येन तथाभूते । कठिनताया आचासे स्थानभूते । रसेनालिजिते । प्रकृतालादे एकरसे तत्परे । क्रमाद्वदरामलकादिप- रिमाणलामेनोपचिते प्रवृद्धे भूभृतां पर्वतानां गुरुखमपहन्ति नाशयति ताशे, ततोऽपि महत्त्वात् चक्रवाकस्पर्धाशीले तत्सदृशलात् । भोगः सुखं शरीरं वा तद्भाजि । जनितमदने । खेष्विन्द्रियेषु लीना आसक्ता उन्मुखा यस्मिंस्तादृशे । एतैरेव विशेषणैरवतारदशकरूपतापि स्तनस्य बोध्या । तद्यथा-रत्या आप्तः प्रियः १ 'क्रमिका'. ३ 'रलावली', ।