पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[ सर्गः २
कुमारसंभवे

सात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुहेमाद्रिवदचलनीयः । व्यक्तः कार्यरूपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एवं विभूतिप्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ॥ ११ ॥

  उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
  कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ १२ ॥

 उद्धात इति ॥ हे भगवन् ! यासां गिरां वाचामुद्धात उपक्रमः प्रणव ओंकारात्मकः। 'ओंकारप्रणवौ समौ' इति। 'स्यादभ्यादानमुद्धा आरम्भः' इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । 'ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥' इति निरुक्तपरिशिष्टयोर्यास्कः। नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः। उक्तं च-'स्वरविशेषादर्थप्रतिपत्तिः'। 'यथेन्द्रशत्रुः स्वरतोऽपराधात्' (शिक्षा० ५२) इति । यासां गिरा त्रिभिर्न्यायरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः। यज्ञो ज्योतिष्टोमादिः, न तु चैत्यवन्दनादिरिति भावः। फलं स्वर्गः । कर्मद्वारेति शेषः। कर्मस्वगौं ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिराम् , वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन ॥ १२ ॥

 सांख्यमतेन स्तुवन्ति-

  त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
  तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः॥१३॥

 त्वामिति ॥ हे भगवन् ! त्वां पुरुषस्यार्थो भोगापवर्गरूपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । 'प्रकृतिः पञ्चभूतेषु प्रधानं भूलकारणम्' इति यादवः । आमनन्ति कथयन्ति । 'म्ना अभ्यासे' इति धातोर्लट् । 'पाघ्राध्मास्थाना-' (पा.७।३।७८) इत्यादिना मनादेशः । प्रकृतिपुरुष-


पाठा०-१ उद्गीथः. टिप्प०-1 सप्तविभूतयस्तु-'अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।

ईशित्वं च वशित्वं च तथा कामावसायिता ॥' इत्यादिनोक्ताः ।