पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १२-१६]
३३
तारकत्रस्तैः सुरैर्विधातुः संस्तवनम्

मेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः। त्वामेव तां प्रकृतिं साक्षित्वेन पश्यतीति तहर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । 'विदो लटो वा' (पा.३।४।८३) इति शेर्जुसादेशः 'अजामेकां लोहित शुक्लकृष्णाम्' (श्वेता० ४१५) इति श्रुतिरत्र प्रमाणम् ॥ ३॥

  त्वं पितृणामपि पिता देवानामपि देवता ।
  परतोऽपि परश्वासि विधाता वेधसामपि ॥१४॥

 त्वमिति ॥ हे भगवन् ! त्वं पितृणामग्निष्वात्तादीनामपि पिता, तेषामपि तर्पणीय इत्यर्थः । देवानामिन्द्रादीनामपि देवता, तेषामपि यजनीय इत्यर्थः । परतोऽपि परश्चासि, सर्वोत्तरोऽसीत्यर्थः । 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' (कठोप० १।३।११) इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्रष्टाऽसि ॥१४॥

  त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः।
  वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥१५॥

 त्वमेवेति ॥ शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि 'कालाट्ठञ्' (पा.४।३।११) इति ठञपवादः। अत एव सूत्रकारस्यापि प्रयोगः-'येषां च विरोधः शाश्वतिकः' (पा.२।४।९) इति। तथापि प्रयोगवशात्साधुरिति वामन इत्याह-'शाश्वतमिति प्रयुक्तेः' (काव्या.सू.५।२।५१) 'इति । शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति । होता यजमानश्चासि। भोज्यमभ्यवहार्यमन्नम्। 'भोज्यं भक्ष्ये' (पा.७३।६९) इति निपातनात्कुत्वाभावः। भोक्ताऽxदश्चासि । वेद्यं साक्षात्कार्यं वस्तु, वेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तxसि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम् ॥ १५॥

  इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः।
  प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥१६॥


पाठा०-१ दैवतम्. २ शाश्वतम्. ३ वेद्यं वेदयिता; वेद्यश्च वेदिता. ४ यथार्थ.

५ब्रह्मा.