पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[ सर्गः १
कुमारसंभवे

शिवः । 'गिरौ डश्छन्दसि' (वा० ४९९९) इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते । अथवा,-गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्ताकर्मणि क्तः । 'रुहः पोऽन्यतरस्याम्' (पा. ७।३।४३) इति हकारस्य पकारः। गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायि सौन्दर्यं गिरिशाङ्कारूढत्वाव्यतिरेकेण नार्य- न्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ॥३७॥

तस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवलोमराजिः।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥३८॥

 तस्या इति ।। नीवीं वस्त्रग्रन्थिम् । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । अतिक्रम्यातीत्य नतं निम्नं नाभिरन्धं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य, इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । 'तस्याः' इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा,-तस्या नीव्या मेखला तन्मेखला, तत्र तद- वस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । 'ज्वालाभासोर्नपुंस्वर्चिः' इत्यमरः ॥ ३८॥

मध्येन सा वेदिविलग्नमध्या चलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ ३९ ॥

 मध्येनेति ॥ 'वेदिः परिष्कृता भूमिः' इत्यमरः । वेदिविलग्नमध्या वेदिवत्


पाठा०-१ नीला. २ राजी. ३ गम्भीरनाभीह्रदसंनिधाने रराज नीला नवलोमराजिः । मुखेन्दुभीरुस्तनचक्रवाकचञ्चुच्युता शैवलमञ्जरीव ॥ (१ नाभि. २ भीतं.) ४ नवयौवनस्य कामेन.


टिप्प-1 मेखलामध्यवर्तिनो नायकमणेरचिरेव नीवीमतिक्रम्य नतनामिरन्ध्र प्रविष्टेवेत्यर्थः । अत्र वर्णसाम्यादिकमुत्प्रेक्षाहेतुः । नेयमुपमा, अर्चिषो नीम्यतिक्रमासंभवात्'

इति नारायण० ।