पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४१]
१९
नवयौवनसंपन्नायाः पार्वत्या अवयववर्णनम्

कृशमध्या, तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ॥ ३९ ॥

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥४०॥

 अन्योन्यमिति ॥ अन्योन्यं परस्परम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' (वा० ४७००) इति द्विरुक्तिः । -समासवच्च बहुलम्' (वा० ४७००) इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्य इति तत्रत्यवार्ति- कम् । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनद्वयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरूपवर्णनम् । तस्य स्तनद्वयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे' इत्यमरः । अत्र संबन्धेऽसंबन्धरूपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंब- न्धेऽप्यसंबन्धाभिधानादिति ॥ ४० ॥

 लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह-

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।। ४१॥

 शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्य मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः ? यो बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जू कृतौ, कण्ठालिङ्गनं प्रापितावित्यर्थः । तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारो- पितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयोगात् परिणामालंकारः ॥ ४१ ।।


पाठा०-१ चारु. २ विवृद्धम्. ३ मालाधिक. ४ प्रतर्कः ५ निर्भसिता- शोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य शोभा व्योन्नः प्रदोषे विफलीचकार ।


टिप्प०-1 यो मकरध्वजः पूर्व दर्पाद्देवमासाद्य विफलीकृतसुकुमारतरपूर्वोपकरणो स एव याभ्यां पशुमिव रज्वा कण्ठे निबध्यात्मविधेयं चकार, तयोः सौकुमार्य कथं शिरीषकुसुमादिभिरुपमातुं शक्यम् । अत्र व्यतिरेकोऽलंकारः' इति नारायण०।