पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
[ सर्गः १३
कुमारसंभवे

पस्य महर्षेः पादौ चरणौ कर्मभूतौ । प्रदक्षिणीकृत्य कृताञ्जलिः सन् । नतैः षड्भिः शिरोभिर्ववन्दे नमश्चके । किलेत्यैतिह्ये ॥ ४४ ॥

 स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
 मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवशैलसुतातनूजः ॥ ४५ ॥

 स इति ॥ स शैलसुतातनूजः पार्वतीनन्दनो भक्त्त्या निमित्तेन प्रह्वीभवन्नम्रीभवन्सन् । मुनेश्च तस्य कलत्रस्य पत्न्याश्च देवानां मातुर्जनन्या अदितेः । जगत एकवन्द्यौ केवलनमस्करणीयौ पादौ तथैव मुनिनमस्कारप्रकारेणैव कामं यथायोग्य प्रणनाम नमश्चक्रे ॥ ४५ ॥

 स कश्यपः सा जननी सुराणां तमेधयामासतुराशिपा द्वौ ।
 तया यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम् ।। ४६ ॥

 स इति ॥ स कश्यपो मुनिः सा सुराणां जनन्यदितिः, एतौ द्वौ तं कुमार तयाशिषाशीर्वादेनैधयामासतुर्वर्धयतः स्म । ययाशिषा निमित्तेनोग्रवीर्यमत एव नैकजगन्त्यनेकजगन्ति, त्रीणि जगन्तीत्यर्थः । जिगीषुं जेतुमिच्छुम् । 'न लोक-' (पा. २।३।६९) इति षष्ठीनिषेधः । तारकं दैत्यं मृधे संगरे जेता, जेष्यतीत्यर्थः । कर्तरि लुट् ॥ ४६॥

 स्वदर्शनार्थं समुपेयुपीणां सुदेवतानामदितिश्रितानाम् ।
 पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन् ॥ ४७ ।।

 स्वेति ॥ स कुमारः । स्वदर्शनार्थं स्वावलोकनार्थं समुपेयुपीणां प्राप्नुवतीनाम् । तथाऽदितिं देवमातरं श्रितानाम् , देवमातुराश्रयेण जीवन्तीनामित्यर्थः । सु शोभनाः सौभाग्यवत्यो देवतास्तासां पादौ चरणौ ववन्दे प्रणनाम । अथ च पतिरेव देवता यासां ताः पतिव्रतास्ता देवतास्त्वाशीर्वचोभिः 'त्वं जय' इत्यादिभिः पुनस्तं कुमारमभ्यनन्दन् , अस्तुवनेत्यर्थः ॥ ४७ ॥

 पुलोमपुत्रीं विबुधाधिभर्तुस्ततः शचीं नाम कलत्रमेषः ।
 नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च ॥ ४८ ॥


पाठा-१ द्वे. २ यथा तथा. ३ अनया; यथा. ४ उग्रवीर्यः. ५ तद्दर्शनार्थम्. ६ स देवतानाम्. ७ अदितेः सुतानाम्. ८ विनयेन ताः, ९ गुहम्. १० शची. ११ अत्र. १२ समुपाचचार.

.