पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४५-५१]
२८९
कुमारस्य सैनापत्येऽभिषिञ्चनम्

 पुलोमपुत्रीमिति ॥ ततोऽनन्तरम् । 'नाम' इति योग्यताप्रतिपादकमव्ययम् ; अव्ययानामनेकार्थत्वात् , ततश्च प्रणामकर्तृत्वयोग्य इत्यर्थः । न च पुलोमपुत्र्या एव प्रणामार्हत्वविवक्षया विशेषणता स्यादिति वाच्यम् ; विबुधाधिभर्नुसंबन्धोद्धाटनेनैव ध्वनितत्वात् । एष स्मरशत्रुसूनुः कुमारो विबुधानां देवानामधिभर्तुरिन्द्रस्य कलत्रं स्त्रीभूतां शचीं शचीसंज्ञिकां पुलोमपुत्रीं नमश्चकार । अथ च सेन्द्राण्याशिषाशीर्वादेन तं कुमारं समुपाचरत् , अवर्धयदित्यर्थः ॥ ४८ ॥

 अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त धनप्रमोदाः ।
 उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक् ॥४९॥

 अथेति ॥ अथानन्तरं धनप्रमोदाः सान्द्रानन्दाः, कुमारावलोकनादिति भावः । अत एव समेता एकत्रभूतास्ता अदितीन्द्रस्य कश्यपस्य प्रमदाः स्त्रियः सप्त मातरो ब्राह्मीप्रभृतयो भक्त्या निमित्तेनोपेत्य समीपमागत्य नमते नमस्कुर्वते तस्मै महेशपुत्राय कुमाराय तारकविजयसाधना आशिष आशीर्वादात्प्राङ्नमस्कारात्पूर्वमेव ददुः ॥ ४९ ॥

 समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
 आनन्दकल्लोलितमानसं तं समभ्यपिश्चन्पृतनाधिपत्ये ॥ ५० ॥

 समेत्येति ॥ अथानन्तरं मुदं दधाना महेन्द्रमुख्या इन्द्रप्रभृतयः सर्वेऽपि त्रिदिवौकसो देवा आनन्देन भावितारकयुद्धकर्तृत्वजन्मना कल्लोलितं तरंगितं मानसं सर एवं मानसं चेतो यस्य तम् , महानन्दमित्यर्थः । तं कुमारं पृतनाधिपत्ये सैनापत्ये समभ्यषिञ्चन्नभिषिक्तमकुर्वन् ॥ ५० ॥

  सकलविबुधलोकः स्रस्तनिःशेषशोकः
   कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
  अजनि हरसुतेनानन्तवीर्येण तेना-
   खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ॥ ५१ ॥

 सकलेति ॥ अनन्तवीर्येणापारपराक्रमेणात एवानूनां महतीमखिला या

पाठा०-१ अदितिप्राप्रमुखाः समेताः; अदितीन्द्रप्रमदासमेताः; अदितीन्द्रप्रमुखाः समेताः. २ सः; तम्. ३ मातृकाः. ४ नमति. ५ स्म शर्वपुत्राय. ६ ताः.

७ मुदमादधानाः. ८ अत्र. ९ ते. १० तमभ्यषिञ्चन्.


१९ क० सं०