पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
[ सर्गः १३
कुमारसंभवे

 प्रणर्तितेति ॥ प्रणर्तिता कम्पिता स्मेरमरोजानां विकसितकमलानां राजिर्माला येन । अनेन सौगन्ध्योक्तिः । तथा परीरम्भेणाश्लेषेण मिलन्त आत्मनि मिश्रीभवन्तो महोर्मयो यस्य । अनेन शैत्योक्तिः । कपोलपाल्याः, कपोलरूपलताग्रस्येत्यर्थः । 'पालिः कर्णे लताग्रेऽश्रौ' इति विश्वः । श्रमेण यद्वारि स्वेदस्तस्य हारी । अनेन मान्द्योक्तिः । अन्यथा श्रमहृतेरसंभवः । एवंभूतः सरितो मन्दाकिन्याः समीरः पवनः पुरोऽग्रे स्थित तं गुहं स्वामिकार्तिकेयम् । यद्वा पुरोऽग्रे भेजे सिपेवे ॥ ३२ ॥

 ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात् ।
 विभिन्नभग्नोद्धृतशालसंघ प्रेक्षांचकार स्मरशत्रुसूनुः ॥ ३३ ॥

 तत इति ॥ ततो गङ्गावलोकनानन्तरं व्रजंश्चलन् स्मरशत्रुसूनुः कुमारः पुरस्तादग्रे विभिन्नो विदारितः, बाणैः शतरन्ध्रीकृत इति तात्पर्यार्थः । तथा भन्न आमर्दितो मूलं विनोपर्येव शतशकलीकृत उद्धृत उत्पाटितश्च शालसंघो यस्य तत् । 'शालो हाले मत्स्यभेदे शालौकस्तत्प्रभेदयोः । शालद्रुस्कन्धशाखायां शालेति परिकीर्तिता ॥' इति मेदिनी । नन्दननामधेयं नन्दनसंज्ञकम् । 'नन्दनं वनम्' इत्यमरः । जम्भजित इन्द्रस्य लीलावनमुपवनं प्रेक्षांचकार ददर्श । 'इजादेश्च-' (पा. ३।१।३६ ) इत्याम् ॥ ३३ ॥

 सुरद्विषोपप्लुतमेवमेतद्वनं बलस्य द्विपतो गतश्रि ।
 इत्थं विचिन्त्यारुणलोचनोऽभूद्भ्रभङ्गदुष्प्रेक्ष्यमुखः स कोपात्॥३४॥

 सुरद्विषेति ॥ स कुमारः । एतत्पुरोवर्ति बलस्य द्विषत इन्द्रस्य । अत्र 'न लोक-' (पा. २१३।६९ ) इत्यादिना षष्ठीनिषेधेऽपि 'द्विषः शतुर्वा' (वा० १५२२) इति विकल्पात्षष्ठी । वनमुपवनं सुरद्विषा तारकेणैव, न केनापि । यथा तारकेणोपद्रुतं तथा न केनापीत्यवधारणार्थकैवकारेण ध्वन्यते । 'एव प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । अभितः सर्वतः। उपप्लुतमुपद्रुतमत एव गतश्रि नष्टशोभमित्थं विचिन्त्य कोपादरुणे लोचने यस्य तथोक्तो भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तथोक्तश्चाभूत् । महतां सति स्वस्मिन्परदुःखं महादुःखावहं भवतीति भावः ॥ ३४ ॥


पाठा०-१ अवात्. २ वज्रभृतः. ३ उन्नतशाखि. ४ एव. ५ दुष्प्रेक्षमुखः. ६ च.