पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २६-३२]
२८३
मन्दाकिन्या दर्शनेन कुमारस्य संमोदः

गताभिरागताभिः । अत एव तीरस्थिताभिः । अत एवाभ्यूर्मिराजि । ऊर्मिराजावित्यभ्यूर्मिराजि तरङ्गमध्ये प्रतिबिम्बिताभिः सुरसुन्दरीभिर्देवाङ्गनाभिर्निमित्तेन व्रजतां गच्छतामपि जनानां मुदं दिशन्तीं ददनीम् । एतासामप्यप्सरसां प्रतिबिम्बवशादनेकधा दृश्यमानत्वाद्युक्ता प्रीतिजनकनेति भावः ॥ २८ ॥

 ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीर्घिकां ताम् ।
 अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः ।। २९ ।।

 ननन्देति ॥ शक्र इन्द्रश्चिरकालेन बहुकालेन दृष्टां तां मुरदीर्घिकां मन्दाकिनी विलोक्य सद्यो झटिति ननन्द जहर्ष, अतिरमणीयं वस्तु चिरकालदृष्टं सद्बहुप्रीतिजनकं भवतीति भावः । ततोऽनन्तरमद्रिपुत्रीमहेशयोः पुत्राय कुमाराय सादरं यथा तथा पुरोगः सन्नदर्शयत् ॥ २९ ॥

 स कार्तिकेयः पुरतः परीतः सुरैः समस्तैः सुरनिम्नगां ताम् ।
 अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत् ।। ३० ॥

 स इति ॥ समस्तैः सुरैः परीतो व्याप्तः स कार्तिकेयः कुमारः । अपूर्वदृष्टाम् , अधुनैव दृष्टामित्यर्थः । तां सुरनिम्नगां पुरतोऽग्रेऽवलेकमानः सन् सविस्मयः साश्चर्यः स्मेरविलोचन समन्दहासनेत्रश्चाभूत् ॥ ३० ॥

 उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः।
 गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना मुदितो ववन्दे ॥ ३१ ॥

 उपेत्येति ॥ भक्तिपरो भक्तिप्रवीणः कुमारः कार्तिकेयो गीर्वाणवृन्दैर्देवसमूहैः प्रणुतां प्रकर्षेण स्तुताम् । 'णु स्तुतौ' इति धातोः कर्मणि क्तः । तां मन्दाकिनीं तत्रोपेत्य, तत्समीपं गत्वेत्यर्थः । किरीटकोटौ मुकुटाग्रे । 'कोटिः स्त्री धनुषोऽग्रेऽस्त्री' इति मेदिनी । अत्र 'अग्रशब्दस्य धनुःशब्दोपलक्षिततया सर्वेषामग्रवाचकत्वं बोध्यम् । न्यस्तोऽञ्जलिर्येन तथाभूतः सन् । प्रणुत्येडयित्वा मुदितो मुमुदे । इदं कृदन्तरूपं क्रियापदम् । तथा नम्रेण मूर्ध्ना शिरसा ववन्दे नमश्चक्रे ॥ ३१ ॥

 प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
 कपोलपालिश्रमवारिहारी भेजे गुहं तं सरितः समीरः॥ ३२ ॥


पाठा०-१ शक्रः. २ सद्यः. ३ पुरः. ४ पुरोज्ञः. ५ इव लोकमानः. ६ सविस्मय. ७ रत्नकिरीट, ८ प्रणताम्. ९ नमितः; प्रणतः. १० प्रपाटित. ११ स्वःसरितः,

-