पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
[ सर्गः १३
कुमारसंभवे

युद्धार्थमागमनमपेक्षते सोऽपेक्षमाणः, प्रतीच्छन्नित्यर्थः । अत एव पुरतोऽग्रतो भविष्णुः स कुमारः कार्तिकेयः सहेलः सक्रीडो यो हासस्तेन च्छुरिताननेन्दुर्मिश्रित. मुखचन्द्रः सन् , किंचिद्विहस्येत्यर्थः । हि निश्चितम् । सुरानवोचज्जगाद ॥ १३ ॥

 भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्ग भवन्तः प्रविशन्तु सद्यः।
 अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः ॥ १४ ॥

 भीत्येति ॥ भी त्रिदिवौकसो देवाः ! अद्य संप्रति भीत्या भयेनालम् , न भेतव्यमित्यर्थः । किं त्वमी भवन्तः सद्यः सहसैव स्वर्ग प्रविशन्तु, स्वर्गप्रवेशे भयहेतुको विलम्बो न विधेय इति तात्पर्यम् । सद्यः सपदि । तरक्षणमित्यर्थः । अथ रोषादाह-पूर्वं दृष्टो दृष्टपूर्वः । 'राजदन्तादिषु-'( पा. २।२।३१) इति प्राक्प्रयोगार्हस्य ‘पूर्व'शब्दस्य परः प्रयोगः। संभवानुरोधाद्भवद्भिरिति लभ्यते । ननु व इत्यनेनैव सिद्धिरिति चेन्न । 'न लोक ' ( पा. २।३।६९ ) इति षष्टी निषेधात् । तथा वो युन्मार्क शत्रुद्वेष्टा महासुरम्तारकोऽत्रैव स्वर्ग एव मे मम दृक्पथं दृग्गोचर- स्वमेतु प्राप्नोतु । दृक्पथमिति 'ऋक्पूरब्धू:-' (पा. ५।४।७४) इति समासा- न्तोऽप्रत्ययः ॥ १४ ॥

 स्खर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्य चण्डम् ।
 इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ॥ १५ ॥

 स्वर्लोकेति ॥ स्वर्लोकस्य लक्ष्म्याः कचाः केशास्तेषां कर्षणाय । लक्ष्मीकेशानां हरणं कर्तुमित्यर्थः । 'तुमधातू-' ( पा. २।३।१५ । इति चतुर्थी । चण्डं प्रचण्डं यस्य तारकस्य दोर्मण्डलं भुजमण्डलं वल्गति चलति । तस्य तारकस्य यच्छोणितं रुधिरं तस्य पानं तदेव कलिः क्रीडा तां कर्मभूतामेते मम शरा अह्नाय झटिति । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । इहैव कुर्वन्तु । तं विनाशयन्त्वित्यर्थः ॥ १५ ॥

 शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा ।
 खोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशतान्मुदं वः १६

 शक्तिरिति ॥ अहतप्रचाराऽविघ्नितगतिः । तथा प्रभावः सामर्थ्यं स एव

पाठा० - १ य:, २ कालदष्ट: ३ स्वगैंकलक्ष्मी. ४ यस्य बलातिचण्डम्. ५ सुमहाप्रसारा. ६ लक्ष्मीः. ७ सहारिशिरः; सहारेः शिरः. ८ दिशतां सुखम्.