पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८-१३]
२७७
स्वर्गावलोकनेन कुमारस्य कौतुकम्

धीनत्वाद्धेतोः चिरकालेन बहुसमयेन दृष्टं स्वर्गलोकं सद्यः सहसा प्रवेष्टुं न विपेहिरे न शेकुः । तत् किं तु क्षगं व्यलम्बन्त, कालं चिक्षिपुरित्यर्थः । अन्योऽपि सभये स्वगृहेऽपि सद्यः प्रवेष्टुं न शक्नोति, किं तु विलम्बते तद्वदिति भावः ॥ १० ॥

 पुरो भव त्वं न पुरो भवामि नाहं पुरोगोऽस्मि पुरःसरस्त्वम् ।
 इत्थं सुँरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः ॥११॥

 पुर इति ॥ तत्क्षणम् । 'कालाध्वनो:-' (पा. २।३।५) इति द्वितीया। प्रवेशसमय इत्यर्थः । भीता अतस्तारकावस्थानशङ्कया सभयाः सुराः स्वर्गं प्रवेष्टुम 'त्वं पुरोऽग्रे भव, अहं पुरो न भवामि, किं तु त्वमेव भव, अहं पुरोगो नास्मि न भवामि । त्वं पुरःसरो भव' इत्थमेवंभूतं कलहं विग्रहं वितेनुः, चक्रुरित्यर्थः । अस्मीत्यहमर्थकमव्ययम् । सर्वेषां त्रिधाभूततया न कोऽप्यन्तः प्रवेष्टुं शशाक, किं तु तत्रैव परस्परं कलहायमानास्तस्थुरिति भावः ॥ ११ ॥

 सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते ।
 दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वसकातरान्ताम् ॥१२॥

 सुरालयेति ॥ सुरालयस्य स्वर्गस्य यदालोकनं तेन यत्कौतुकमानन्दस्तेन निमित्तन शुचीनि शुद्धानि स्मेराणि समन्दहासानि च विलोचनानि येषां तथा- भूतास्ते देवा द्विषत्साध्वसेन तारकशत्रुभयेन कातरान्तां भीतप्रान्ताम् , भय- चिह्नतरलत्वादियुतामित्यर्थः । तथाभूतां दृष्टिं नेत्रं मुदा प्रीत्या, प्रसादनेति यावत् । उपलक्षिते कुमारस्य मुखारविन्द वदनकमले दधुः । दुर्घटप्रवेशोपायोपदेशापेक्षयेति भावः । कुमारो बालोऽपि सन् न भीत इति मुंदति विशेषगेन व्यज्यते ॥ १२ ॥

 सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः ।
 स तारकापातमपेक्षमाणो रणप्रवीरो हि' सुरानवोचत् ॥ १३ ॥

 सहेलेति ॥ ततो दृष्टिपातानन्तरं रणे प्रकृष्टं वीरोऽत एव तारकस्यापातं

पाठा०-१ पुरो ह्यत त्वम्, २ नवः. ३ पुरःसर त्वम्. ४ द्विषा तेन कृते खवश्ये स्वर्गे; द्विषा तेन हता मिथस्ते स्वर्गे, ५ सुरत्वरा. ६ सुविस्मेरविलोचनस्य; सुविस्मेरविलोचनान्ताः. ७ कातरास्ते; कातरान्ते. ८ उद्धरित; उच्छुरित. ९ निविष्टः.

१० अवेक्षमाणः, ११ अभि.