पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
[ सर्गः १३
कुमारसंभवे

अथामरेशपदमिन्द्रपदं स्वर्गं स्थिरत्वं स्थैर्यं नय प्रापय' । उभयत्राप्याशिषि लोट् । इत्येवंभूतयाऽऽशिषाशीर्वादेनाभ्यनन्ददस्तौपीत् ॥ २॥

 प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं स्वमातुः ।
 तस्याः प्रमोदाश्रुपयःप्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ॥ ३ ॥

 प्रह्वीति ॥ स कुमारः प्रह्वीभवन्नम्रीभवन्सन् , नम्रतरेण मूर्ध्ना । अत्र प्रह्वीभव- नित्यनेनैव मूर्ध्नो नम्रत्वे सिद्धे पुनर्विशेषणोपादानं सामान्यतोऽन्येषामङ्गानां नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् , पुनरुपादानेन तरब्ग्रहणलिङाच्च। स्वमातुरङ्घ्रियुगं चरणद्वन्द्वं नमश्चकार । तस्याः पार्वत्याः संबन्धीनि यानि प्रमोदा- श्रुपयांसि तेषां प्रवृष्टिर्वर्षणं तस्य कुमारस्य वीरेषु वरस्य श्रेयसः, सेनापतेरित्यर्थः । तस्याभिषेक इव योऽभिषेकः सोऽभवत् । तस्य यादगभिषेको भवति स मात्र- श्रुपयोवृष्टिरा शिरश्चरणनखपर्यन्तं प्लावयन्त्यभूदिति भावः ॥ ३ ॥

 तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा ।
 शिरस्युपाघ्राय जगाद शत्रुं जित्वा कृतार्थीकुरु वीरसूं माम् ॥४॥

 तमिति ॥ सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तं पुत्रम् । अस्य ल्यबन्तत्रयेण संबन्धो विधेयः । अङ्कमुत्सङ्गम् । 'अङ्को रूपकभेदाङ्गचिह्ने रेखाजिभूषणे । रूपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः' इति मेदिनी । आरोप्य संस्थाप्य । तथा गाढं दृढं यथा तथा । 'प्रगाढः कृच्छदृढयोः' इति मेदिनी। प्रेति त्रित्वसंघातनिवेशनायैव । एवं विना तदलाभात् । आश्लिष्यालिङ्गय । तथा शिरस्युपाघ्राय च । 'हे वत्स! त्वं शत्रु तारकं जित्वा वीरं सूते सा वीरसूम्त- थोक्ता मां कृतार्थीकुरु' इति जगाद । एवंविधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यं प्रसृतिशीलेन यशसा धवलीकृतं सत् 'एष यदीयः पुत्रः सा कृता- र्थैव' इति जनो वर्णयिष्यतीत्यतो मत्कृतार्थत्वं सिद्धमेवेति भावः ॥ ४ ॥

 उद्दामदैत्येशविपत्तिहेतुः श्रद्धालुचेताः समरोत्सवस्य ।
 आपृच्छय भक्त्या गिरिजागिरीशौ ततः प्रतस्थेर्भि दिवं कुमारः ५

 उद्दामेति ॥ ततोऽनन्तरमुद्दाम उद्भटो यो दैत्येशस्तारकस्तस्य विपत्तिमत्यु-

पाठा०-१ युगं सः; युगाय. २ प्रपूरः; प्रवर्षः. ३ महाद्रे:, ४ आश्लिष्ट- गात्रम्. ५ कृतार्थां कुरु. ६ दैतेय. ७ समरोद्धुरः सः. ८ त्रिदिवम्.