पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-२]
२७३
शिवेन तारकवधाशीर्वितरणम्

 सुरेति ॥ सुराणां परिवृढः परिशाम्तेन्द्रः । 'वृहृ उद्यमने' । कर्तरि क्तः । प्रौढमतिशयं वीरं पराक्रमशालिनं बलवान् योऽमरारातिस्तारकासुरस्तस्य स्त्रीणां दृगञ्जनस्य दृष्टिकज्जलस्य भञ्जनं भञ्जकम् । कर्तरि ल्युट् । मृतभर्तृकतया कज्जल- धारणस्यानुचितत्वादिति भावः । अत एव जगभ्द्योऽभयदमभयदातारमुमापते- र्हरस्य कुमारं पुत्रं प्राप्य सद्यः सहसा प्रमोदे प्रकृष्टोन्मोदे पर आसक्तोऽभव- ज्जातः । तथा हि-अभिमते मनोरथे पूर्णे सति मुदा प्रीत्या निमित्तेन को वा न माद्यति ? अपि तु सर्व एवोन्मत्तो भवतीत्यर्थः । अत्र सामान्येन विशेषसमर्थ- नरूपोऽर्थान्तरन्यासोऽलंकारः । इदं हरिणीछन्दः; 'रसयुगहयेर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ६ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमार-
सेनापत्यवर्णनं नाम द्वादशः सर्गः

त्रयोदशः सर्गः ।

 प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
 ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तुः प्रणनाम पादौ ॥१॥

 प्रस्थानेति ॥ ततोऽनन्तरं स कुमारः कार्तिकेयः प्रस्थानकाल उचितो योग्य- श्चारुश्च वेषो यस्य । तथा स्वर्गिवर्गैरिन्द्रादिदेवगणैरनुगम्यमानः सन् । नतेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चक्रे । 'उपसर्गादसमासेऽपि' (पा. ८।४।१४) इति णत्वम् ॥ १॥

 जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर ! वत्स! ।
 इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ॥२॥

 जहीति ॥ प्रणमन्तं नमस्कुर्वन्तं तं कुमारमीशो हरो मुदा प्रीत्या मूर्धन्यु- पाघ्राय गन्धमुपादाय 'हे वीर! हे वत्स! समरे युधीन्द्रशत्रुं तारकं जहि मारय ।

पाठा०-१ त्रिलोक.