पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७०
[ सर्गः १२
कुमारसंभवे

भूत्वेत्यर्थः । समूलं सकुटुम्बपरिवारमुत्खाय निहत्य दुःखापहारं दुःखविनाशं विधत्ते कुरुते, त्वन्नन्दनं विनास्माकं दुःखसमूहः केन निवार्यत इति भावः ॥ ५० ॥

महाहवे नाथ ! तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम् । महासुराणां रमणीविलापैर्दिशो दशैता मुखरीभवन्तु ॥५१॥

महाहव इति ॥ हे नाथ! महाहवे महति सङ्ग्रामेऽस्य पुरोवर्तिनस्तव सूनोः पुत्रस्य शितैस्तीक्ष्णः शस्त्रैः करवालादिभिः कृत्तशिरोधराणां कर्तितग्रीवाणां महासुराणां दैत्यानां तारकपक्षाश्रयिणां रमणीनां विलापैर्वैधव्यप्रयुक्तप्रलापैरेता दश दिशो मुखरीभवन्तु वावदूका भवन्तु । 'मुखरो वावदूकेऽपि' इति मेदिनी । 'खमुखकुञ्जेभ्यो रः' ( वा० ३१९८ ) इति रप्रत्ययः ॥ ५१ ॥

महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन । बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः ।। ५२ ॥

महेति ॥ हे भगवन् ! तत्रासुरे तारके तवात्मजेन पुत्रेण महती या रणक्षोणिः संग्रामभूमिस्तत्र ये पशवः क्रोष्ट्रयादयस्तेषामुपहारीकृत उपदीकृते सति । 'उपहारश्चोपदायाम्' इति मेदिनी । एष सुरलोको बन्दिर्बन्धनागारं तत्र स्थितानां सुदृशां स्वरमणीनां वेणिप्रमोक्षं वेणीमोचनं करोतु ॥ ५२ ॥

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः । कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे ॥ ५३॥

इत्थमिति ॥ सुरेन्द्रे महेन्द्र इत्थं वदति सति सुरारिस्तारकस्तस्य दुश्चेष्टितमपराधजनकश्चेष्टाविशेषस्तेन हेतुना जातरोष उत्पन्नामर्षः स्मरारिभूतानामधिपतिर्हरः। तेषु त्रिदशेषु कृतानुकम्पो विहितदयः सन् । 'कृपा दयानुकम्पा स्यात्' इत्यमरः । भूयोऽपि पुनरपि बभाष उवाच ॥ ५३ ॥

अहो अहो देवगणाः सुरेन्द्रमुख्याः! शृणुध्वं वचनं ममैते । विचेष्टते शंकर एष देवः कार्याय सज्जो भवतां सुताद्यैः ॥ ५४॥

अहो इति ॥ 'अहो अहो' इति संबोधने । संभ्रमे द्विरुक्तिः । हे देवगणाः

पाठा०-१ शरैः. २ क्षोणिपशूपहारे. ३ वेणिप्रमोकम्. ४ सः. ५ सुरेन्द्रमुखाः. ६ ममैतत्, ७ एव, ८ सकलं शुभाय; सकलैः शुभास्त्रैः,