पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४५-५०]
२६९
देवैः स्वपराभवार्तिहरणे कुमारादेशयाचनम्


श्लो० ४५-५० ] देवैः स्वपराभवार्तिहरणे कुमारादेशयाचनम् २६९ स्तुत्येति ॥ हे भगवन् ! पुरा पूर्वमस्माभिः स्तुत्या श्लाघयोपासितेनानुकूलि- तेन पितामहेन ब्रह्मणा नोऽस्मान् हे देवाः ! संयति संगरे स्मरारातिसुतः शांकरिः सेनापतिः सेनानीः सन्नेतं दैत्यं पुरोऽग्रे निहन्ति, निहनिष्यतीत्यर्थः । यावत्पु- रानिपातयोर्लट्' (पा. ३।३।४ ) इति निरूपितं कथितम् ॥४७ ॥

अहो ! ततोऽनन्तरमद्ययावत्सुदुःसहां तस्य पराभवार्तिम् । विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसोऽमी ॥४८॥

अहो इति ॥ अहो भगवन् ! ततः पितामहनिरूपणादनन्तरमद्ययावदद्यपर्य- न्तममी त्रिदिवौकसो देवाः सुदुःसहाम् । 'ईषद्दुःसुपु-' (पा. ३।३।१२६ ) इति खल् । तस्य तत्कर्तृकां पराभवेन निमित्तेनार्ति पीडां हृदन्ते मनोमध्ये शल्यं तद्वदुःसहमाज्ञाया अनुशासनस्य 'भारं वहते' इत्यादिकस्य निवेशं स्थापनं विषेहिरेऽसहन्त । हन्तेति दुःखे ॥ ४८ ॥

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् । सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम् ॥४९॥

निदाघेति ॥ हे भगवन् ! त्वं स्वयमेव निदाघे ग्रीष्मे यद्धाम सौरं तेजस्तेन यः क्लमः खेदो दाहलक्षणस्तेन विक्लवानां मलिनानामौषधीनां सुतरां नन्दनमा- नन्दकारिणं नवीनमाषाढीयमम्भोदमिव नोऽस्माकं नन्दनमानन्दकारिणं तथा सेनान्यं सेनाधिपतिमेतं पुरोवर्तिनमात्मनो नन्दनं पुत्रम् । नन्द्यादित्वाल्युः । 'युवोः-' (पा. ७।१।१ ) इत्यनादेशः । आदिशानुशाधि । प्रार्थनायां लोट् । अस्मत्कार्यं कर्तुमिति शेषः ॥ ४९ ॥

त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम् । अस्माकमेषां पुरतो भवन्सन्दुःखापहारं युधि यो विधत्ते ॥५०॥

त्रैलोक्येति ॥ यो भवन्नन्दनस्त्रैलोक्यस्य लक्ष्म्या हृदय एकमद्वितीयं शल्यं तद्वदुर्धर्षं तं महासुरं तारकं युधि संगर एषामस्माकं पुरतोऽग्रे भवन्सन् , अग्रे

पाठा०-१ अकामतः; अतस्ततः. २ सुरा अदान्तस्य पराभवार्तिम् ; सुदुःसहं तस्य पराभवं तम्. ३ तस्य. ४ नियोगम्. ५ सन्नन्दनम्. ६ एनम्. ७ द्वितयैक.

८ भविष्णुः. ९ सुधिया विधाता.