पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
[ सर्गः १२
कुमारसंभवे

कुमारसंभव [ सर्गः १२ शत्रोस्तारकस्य जय आशां मनसा बबन्ध धृतवान् । एवंभूतोऽयं कुमारो मच्छ- क्षेप्यत्येवेनि पुरंदरस्य प्रतीतिरभूदित्यर्थः ॥ २५ ॥ अथ युग्मेनाह- श्रीनीलकण्ठ ! धुपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रेतीच्छन् । सहस्रनेत्रेव भव त्रिनेत्र ! दृष्टया प्रसादप्रगुणो महेश! ॥२६॥ इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभि हेमवेत्रम् । प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमुवाच वाचम् ।। २७ ।। श्रीति । इतीति ॥ अथ नन्दी गणः पुरतः सर्वेभ्योऽग्रगामितयेन्द्राधिष्ठितक- क्षामारभ्य महश्वराधिश्रितमन्दिरपर्यन्तमहम्पूर्विकया बहुविधगणसुरगणावृते मध्य- गतदेशेऽहम्पूर्विकावलम्बेनेति तात्पर्यार्थः । प्रसादस्येन्द्रागमनिवेदनामुदन्धेनान्ध- कारिणा दत्तपारितोषिकरूपस्य पात्रं योग्यो भविष्णुर्भवितुमिच्छुः सन्नेत्य, अन्तरिति शेषः । तथा कक्षा द्वारमभि संमुखं मवेत्रं सौवर्णयष्टिकां निधाय संस्थाप्य । इयं वेत्रधारिणो रीतिर्वर्णिता । प्रबद्धाञ्जलिः सन्स्मराराति महेश्वरम् । भोः श्रीयुक्तनीलकण्ठ सपार्वतीक महेश्वर ! छुपतिरिन्द्रस्त्वयि भवति प्रणामावसरं प्रणतिसमयं प्रतीच्छन्प्रतीक्षमाणः पुरोऽग्रेऽम्ति विद्यते । महेश्वरप्रणिनंसुः सन्बहिरास्त इत्यर्थः । अतो हे त्रिनेत्र भो महश! अत्र पुरोवर्तिनि सहस्रनेत्र इन्द्रे दृष्टया दर्शनेन प्रसादप्रगुणः प्रसादविधानानुकुलो भव, आत्मीयदर्शनरूपं प्रसादं तदुपरि कुर्वित्यर्थः । इत्येवंभूतां वाचमुवाचोक्तवान् ॥ २६-२७ ॥ पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः । प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन ॥ २८ ।। पुरेति ॥ ततोऽनन्तरं निवेदनानन्तरं त्रिलोकसेव्यस्त्रैलोक्यपूजनीयस्त्रिपुरासुर- स्यारिः शत्रुर्महेश्वरः सुरसङ्घन देवसमूहेन सेव्यं पूज्यं सुरेन्द्रमिन्द्रं पुरा प्रथम

पाठा०-१ तव. २ च पृच्छन्. ३ सहस्रनेत्रोऽत्र भव त्रिनेत्र; सहस्रनेत्रं प्रसर त्रिनेत्र. ४ दृष्ट्वा. ५ प्रवणः. ६ महेशः. ७ हेमदण्डम्. ८ भविष्णुमध्यन्धकारातिम् , भविष्णुरधिस्मरारातिम्. ९ मुदा. १० असुरारिम्. ११ त्रैलोक्यसेव्यः, त्रैलोकसेव्यः.

१२ सुधासारविसारिणा; सुधासारविधारिणा.