पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
[ सर्गः १२
कुमारसंभवे

 कालार्दितानां त्रिदशासुराणां चितारजोभिः परिपाण्डुराङ्गम् ।
 महन्महेभाजिनमुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ।। १५ ॥

 कालेति ॥ पुनः किंभूतम् ? कालेनावसानकालिकमृत्युनार्दितानां पीडितानाम् , मृतानामिति यावत् । त्रिदशासुराणां देवदैत्यानां चिताया मृतमण्डपस्यन रजोभिर्भस्मभिः परितः पाण्डुरं शुभ्रमङ्गं यस्य, विहितमृतमण्डपभस्मोद्धूलनमित्यर्थः । इह देवानाममरत्वाभावो दुर्धटः । तत्र ज्ञानाभावेन निहितपदस्य कवेः प्रमाद इत्याहुः । केचित्पुनः 'मनुजासुराणाम्' इति पाठान्तरं कल्पयन्ति । अथ यद्यपि कालार्दितानामिति विशेषणमुभयविशेष्यान्वयित्वेन द्वितीयविशेष्ये विवक्षितमप्यकालार्दितत्वविहशेषणस्य व्यभिचारनियमेन नियमनान्निषिद्धं भवति, तथापि प्रथमविशेप्ये लोकोपकारकतापक्षेऽपि व्यभिचारितार्थसंभवेन विशेषणानुपयोगासंभवप्रयुक्तप्रधानभूतद्वितीयविशेष्यसंबन्धेन प्रथमविशेष्यान्वयित्वनिरासः । एवं चोपकार्यमनुजसहचरितत्वेन लोकोपकारकतापक्षावलम्बेन च विवक्षितार्थस्याविवक्षितत्वात् । संहारकतापक्षे तु प्रायो गतिरन्वेषणीयेत्यलम् । तथा महत्परिणाहि मटेभस्य महतो गजस्याजिनं चर्म परिदधानमिति पूर्वेण संबन्धः । अत एवोद्गतमुदितमभ्रं मेघो यत्र स चासौ प्रालेयशैलो हिमवांस्तस्य श्रियं शोभामुद्वहन्तं दधानम् । निदर्शनालंकारः ॥ १५ ॥

 पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजापि निषेव्यमाणम् ।
 नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ।। १६ ॥

 पाणीति ॥ पुनः किंभूतम् ? पाणौ स्थितं ब्रह्मकपालमेव पात्रं यस्य पाणिना ब्रह्मकरोटीपात्रं बिभ्राणमित्यर्थः । पुनः किंभूतम् ? वैकुण्ठभाजापि हरिणापि निषेव्यमाणम् । सेवनमत्र कादाचित्कं नत्विदानींतनमेव त्रयाणामभेदस्यैवेष्टार्थकरत्वात् । एकैव मूर्तिरिति सप्तमसर्गोक्तेरिति भावः । हरापेक्षया हरेरपि लघुत्वसंभावनया संभवत्येव कदाचित्सेवनम् । तथा नराणामस्थिखण्डान्येवाभरणानि यस्य, हिंसाकालसंल्लग्नस्वशूलत्रितयास्थिकमित्यर्थः ।

तथा रणे योऽन्तो रिपूणा-

पाठा०-१ परिपाण्डुरागम्. २ उन्नत. ३ वैकुण्ठकङ्कालकरालकायम्.

४ सुरास्थिकण्ठाभरणम् ; सुरास्थिस्वण्डाभरणम्.