पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १०-१४]
२५७
कैलासधाम्नि शिवदर्शनवर्णनम्

 भालस्थल इति ॥ भालस्थले ललाटदेश एधमानं वर्धमानं यद्धाम तेजस्तेन निमित्तेनाधरीभूते परीभावमुपागते रवीन्दू एव नेत्रे यस्मात् , ताभ्यामधिकतेजस्कमित्यर्थः । यद्वा,-एधमानधाम अधरीभूतं चेति पदद्वयम् । तत्रैवं व्याख्येयम् एधमानं वर्धमानं धाम तेजो यस्य वर्धिष्णुतेजस्कमित्यर्थः । तथोन्नतानतस्थानभेदेनाधरीभूते भालस्थनेत्रापेक्षया नीचैर्भूते रवीन्दू एव नेत्रे यस्य। तथा युगान्तकाले प्रलयकाल उचितं परिचितं हव्यवाहमग्निरूपम् । प्रलयकालिकानलरूपमित्यर्थः । अत एव मीनध्वजस्य कामस्य प्लोषणं दाहकम् । 'प्लुष दाहे', 'कृत्यल्युटो बहुलम्' (पा. ३१११३ ) इति कर्तरि ल्युट् । एवंभूतं लोचनमादधानम् , बिभ्राणमित्यर्थः ॥ १२॥

 महार्हरत्नाञ्चितयोरुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
 कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन॥१३।।

 महेति ॥ पुनः किंभूतम् ? महार्हाणि बहुमूल्यानि यानि रत्नानि मणयम्तैरणण्जञ्चितयोः खचितयोरत एव समन्तात्सर्वत उदारमधिकं यथा स्यात्तथा स्फुरत्प्रसरत्प्रभामण्डलं कान्तिवितानं ययोः । तथाभूतयोः कुण्डलयोः कर्णभूषणयोश्छलेन कैतवेन कर्णयोः श्रवणयोः स्थिताभ्यामुपविष्टाभ्यां शशिभास्कराभ्यां चन्द्रसूर्याभ्यामुपासितं सेवितम् । कुण्डलविषये कैतवात्सूर्याचन्द्रमसोरारोष्यमाणत्वादृप्यरूपकं कैतवापहृतिश्चेत्युभयोः संसृष्टिः ॥ १३ ॥

 स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन गौर्याः ।
 नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम् १४

 स्वबद्धयेति ॥ पुनः किंभूतम् ? परिस्फुरन्त्या परितः प्रसरन्त्या नीलस्य श्यामस्य कण्ठस्यात्मगलस्य महत्या कान्त्या प्रभया सुतरां विराजमानं शोभमानम् । कयेवेत्युत्प्रेक्षते-कुतुकेन कौतुकेन स्वस्मिन्नात्मीयकण्ठे बद्धया निहितया नीलमाणिक्यमय्या नीलरत्नविशेषप्रचुरया गौर्याः कण्ठिकयेव कण्ठभूषयेव । 'कण्ठिका कण्ठभूषणम्' इति मेदिनी ॥ १४ ॥

पाठा०-१ उदार. २ सुबुद्धया. ३ गौर्या. ४ च विराजमानम्.

१७ कु. सं.