पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २३-२८]
२४५
शङ्करपार्वत्योः कुमारेण समं विमानारोहणम्

 सुखेति ॥ मृगाङ्कमौलेर्हरस्य कलत्रं भार्या । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । एकनाल एककाण्ड उद्गतान्युदितानि यानि पञ्च पद्मानि तेषां लक्ष्मीरिव शोभेव लक्ष्मीः शोभा यस्यास्तथाभूतां तस्य कुमारस्य षण्णां वदनानां समाहारं षड्वदनीम् । 'द्विगो:-' (पा. ४।१।२१) इति ङीप् । इह संख्यासादृश्यमन्तरा न विरोधः । सुखाश्रुपूर्णेनानन्दाश्रुजलपरिपूरितेनैकेन मुखाम्बुजेन वदनकमलेन क्रमाद्यथाक्रमं चुचुम्ब स्पृष्टवती, अतिशयप्रेमवशादिति भावः ॥ २५॥

 हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
 पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ २६ ॥

 हैमीति ॥ तं नन्दनं तनयमादधाना सा पार्वती । फलं दधाना हेमगिरेः सुमेरोः संबन्धिनी, तदुत्पन्नेत्यर्थः । हैमी हेमविकारा । विकारार्थकेऽणि 'टिड्डाणञ्-'(पा. ४।१।१५) इति ङीप् । लतेव । विकस्वरं प्रफुल्लं पद्मं कमलं दधाना नाकनदीव गङ्गेव । नूतनं नवोदयमिन्दुं दधाना पूर्वापूर्वसंज्ञिका दिगिव । आभाच्छुशुभे । अत्र मालोपमालंकारः ॥ २६ ॥

 प्रीतात्मना सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
 कुमारमुत्सङ्गतले दधाना विमानमभ्रंलिहमारुरोह ॥ २७ ॥

 प्रीतेति ॥ कुमारं पुत्रमुत्सङ्गतले दधाना बिभ्रती सा देवी प्रीतात्मना प्रसन्नीभूतमनसा प्रयतेन सावधानेन, न तु संभ्रमितेन । 'नयवर्त्मगाः प्रभवतां हि धियः' इति न्यायादिति भावः । तथाभूतेन शशिशेखरेण शिवेन दत्तहस्तावलम्बा सती, अत्यतिप्रेमभरादिति भावः । अभ्रंलिहमाकाशस्पृक् । 'वहाभ्रे लिहः'( पा. ३।२।३२) इति खश् । विमानमारुरोहारूढा ॥ २७ ॥

 महेश्वरोऽपि प्रमदप्ररूढरोमोद्गमो भूधरनन्दनायाः।
 अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात् ॥२८॥

 महेश्वर इति ॥ प्रमदेनानन्देन प्ररूढा रोमोद्गमा यस्य तथाभूतो महेश्वरोऽप्यात्मजे पुत्रे वत्सलत्वाद्दयावत्त्वाद्धेतोर्भूधरनन्दनायाः पार्वत्या अङ्कादुत्सङ्गतस्तं

पाठा--१ हैमम्. २ सुप्रयतेन. ३ अकाण्डमादत्त. ४ तमङ्कतः ५ सः.

६ सौम्यात्मज.