पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
[ सर्गः ११
कुमारसंभवे

जगत्स्वेकवीरं तमात्मनो नन्दनं पुत्रं सुधानिधानममृतपात्रमिव स्वमात्मीयमङ्कमारोप्य संस्थाप्य पुत्रिणीनां पुत्रवतीनां धुर्यग्रभागे पूज्या पूजयितुं योग्या बभूव । एतत्पुत्रस्य सर्वासामपि पुत्रेभ्योऽधिकत्वादग्रपूज्यत्वमुचितमेवेति भावः ॥ २२ ॥

 निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
 तमेकपुत्रं जगदेकमाताभ्युत्सङ्गिनं प्रस्रविणी बभूव ॥ २३ ॥

 निसर्गेति ॥ निसर्गेण स्वभावेन, न तूपाधिनेत्यर्थः । यो वात्सल्यरसो दयावत्त्वरसस्तयौघेन सिक्ता प्लाविता, तत्रातिवात्सल्यवतीत्यर्थः । तथा सान्द्रप्रमोदोऽतिशयहर्षः स एवामृतं पीयूषं तस्य पूरेण प्रवाहेण पूर्णा भृता जगतामेकाऽद्वितीया माता परिपोषिका देव्युत्सङ्गिनमधिश्रितोत्सङ्गं तमेकपुत्रमभि संमुखं प्रस्रविणी दुग्धस्राववती बभूव, पुत्रं दृष्ट्वा मातुः स्तनाभ्यां पयः पततीति युक्तमिति भावः॥ २३ ॥

 अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
 सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ॥२४॥

 अशेषेति ॥ षाण्मातुरः षण्णां मातॄणामपत्यं षाण्मातुरः कार्तिकेयः । अत्र 'षण्मातृ'शब्दात् 'मातुरुत्संख्या-' (पा. ४।१।११५) इत्यादिनाण् 'मातृ'शब्दस्योदादेशश्च । 'षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः' इत्यमरः । सुरस्रवन्त्या देवनद्याः, गङ्गाया इत्यर्थः । 'स्रवन्ती निम्नगापगा' इत्यमरः । तथा कृत्तिकाभिश्च सस्पृहं सेच्छं यथा तथा । 'इच्छा काङ्क्षा स्पृहेहा तृट्' इत्यमरः । अस्मदीयपयोधरस्रवदमृतपातोयमिदानीमेतदीयस्तनपयः पिबन् पुनरप्यस्मदीयपयोऽपि स्मरेदेवंभूतेच्छासहितमित्यर्थः । मुहुर्मुहुरनुवेलमीक्ष्यमाणोऽवलोक्यमानः सन्नशेषं सकलं यल्लोकत्रयं तस्य मातुः पोषिण्या अस्या देव्याः स्तन्या स्तनेभवा । 'शरीरावयवाद्यत्' (पा. ५।१।६) इति यत् । सा चासौ सुधा च तामधासीत् पपौ। 'धेट् पाने' कर्तरि लुङ् । 'विभाषा घ्राधेट्-' (पा. २।४।७८ ) इति सिज्लुग्न ॥ २४ ॥

 सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
 तस्यैकनालोद्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं , चुचुम्ब ॥ २५ ॥

पाठा०-१ सोत्सङ्गिनम् ; अभ्युत्सङ्गितम्. २ सुखास्रपूर्णेन. ३ उद्गम. ४ चुचुम्बे.