पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १७-२२]
२४३
पार्वत्या कुमारायाङ्कारोपणम्

उत्तरः प्रधानं यस्यास्तथाभूताया देव्याः पार्वत्याः संबन्धिनोर्दृशोर्विलोचनयोर्गोचरतां विषयतां जगाम प्राप, बाष्पनिर्मुक्ताभ्यां लोचनाभ्यां देवी तमपश्यदित्यर्थः ॥ १९॥

 तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।
 सा नन्दनालोकनमङ्गलेषु क्षणंक्षणं तृप्यति कस्य चेतः ॥२०॥

 तमिति ॥ तं बालं क्षणमीक्षमाणाऽवलोकमाना सा देवी विनिमेषं विगतनिमेषमीक्षणानां नेत्राणां सहस्रमाप्तुं मम सहस्रं नेत्राणि भवन्त्वित्यैच्छदियेष, द्वाभ्यां विलोचनाभ्यामाकण्ठदर्शनजननाभावादिति भावः । तथा हि-नन्दनस्यालोकनान्येव मङ्गलानि तेषु विषये क्षणंक्षणम् , प्रतिक्षणमित्यर्थः । 'नित्यवीप्सयोः' (पा. ८।१।४) इति वीप्सायां द्विर्भावः । कस्य चेतस्तृप्यति तृप्तिं प्राप्नोति ? अपि तु न कस्यापीत्यर्थः ॥ २० ॥

 विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्याम् ।
 नवोदयं पार्वणचन्द्रचारुं गौरी स्वमुत्सङ्गतलं निनाय ॥ २१ ॥

 विनम्रेति ॥ गौरी पार्वती । 'षिद्गौरादिभ्यश्च' (पा. ४।१।४१) इति ङीष् । नवोदयं नूतनोद्भवम् , तत्कालजातमित्यर्थः । अत एव पार्वणः पर्वणि भवः । 'तत्र भवः' (पा. ४।३।५३ ) इत्यण् । स चासौ चन्द्रश्च तद्वच्चारुं मनोहरम् । चन्द्रोऽपि नवोदय इति ज्ञेयम् । तथाभूतं तं तनूजं पुत्रम् , कर्मभूतमित्यर्थः । आदाननयने उभे अपि प्रत्यस्य कर्मत्वं विवेचनीयम् । विनम्राः पादप्रणता ये देवासुरास्तेषां पृष्ठेषु गच्छतः संचरतस्ताभ्याम् । अनेन तेभ्योऽभयदानमुद्रा कृतेति व्यज्यते । पाणिसरोरुहाभ्यां करकमलाभ्यामादाय गृहीत्वा स्वमात्मीयमुत्सङ्गतलं निनाय प्रापयामास । हस्ताभ्यामुत्थाप्य स्वाङ्क आरोपितवतीत्यर्थः ॥ २१ ॥

 स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्रा।
 तमेकमेषा जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ।। २२ ।।

 स्वमिति ॥ इन्दुवक्रा चन्द्रमुख्येषा पार्वती । एकमद्वितीयं जगदेकवीरं

पाठा०-१ न नन्दनालोकनमङ्गलेषु; सुनन्दनालोकनकौतुकेन. २ हृष्यति. ३ नवोदयात् ; महोदयात्. ४ तम्. ५ एकमेवम् ; एकदेवम् . ६ एकदेवी.