पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २३-३०]
२२७
गङ्गां प्रति हुतभुजः प्रस्थानम्

  इत्युदीर्य सुनासीरो विरराम स चानलः ।
  तद्विसृष्टस्तमापृच्छ्यं प्रतस्थे खर्धुनीमभि ॥ २७ ॥

 इतीति ॥ इत्येवंभूतमुदीर्योक्त्वा सुनासीर इन्द्रो विरराम, तूष्णीं तस्था- वित्यर्थः । विररामेति 'व्याङ्परिरभ्यो रमः' (पा. १।३।८३ ) इति परस्मैपदम् । 'वृद्धश्रवाः सुनासीरः' इत्यमरः । सोऽनलश्चाग्निस्तु तद्विसृष्टस्तेन सुनासीरेण विसृष्टस्त्यक्तः, गन्तुमनुमत इत्यर्थः । तादृशः सन् । तमिन्द्रमापृच्छ्य 'अहं गच्छामि' इत्याज्ञामादाय स्वर्धुनीं गङ्गामभि प्रतस्थे प्रस्थितवान् ॥ २७ ॥</poem>}}

  हिरण्यरेतसा तेन देवी स्वर्गतरंगिणी ।
  तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी ॥ २८ ॥

 हिरण्येति ॥ तेन प्रस्थितेन तीर्णाध्वनाऽवगाहितमार्गेण हिरण्यरेतसा वह्निना निःशेषक्लेशनाशिनी निःशेषा ये केशाः पञ्च केशास्तेषां नाशिनी, मुक्तिदायिनीत्यर्थः । सा प्रसिद्धा स्वर्गतरङ्गिणी स्वर्णदी देवी प्रपेदे प्राप्ता । कर्मणि लिट् ॥२८॥

 अथ विभिस्तामेव विशिनष्टि-

  स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता ।
  उदारदुरितोद्गारहारिणी दुर्गतारणी ।। २९ ।।

 स्वर्गेति ॥ स्वर्गे यदारोहणं तस्य निःश्रेणिः सोपानपङ्क्तिः, अस्यां स्नानमात्रेणैव स्वर्गमारोहन्तीत्यर्थः । पुनश्च मोक्षमार्गस्य मुक्तिपथस्याधिदेवता, यां प्रसाद्य मुक्तिमाप्नुवन्तीत्यर्थः । पुनश्चोदाराणामुच्चैस्तराणां दुरितानां पापानामुद्गारस्य समू- हस्य हारिणी, विनाशिनीत्यर्थः । पुनश्च तरन्त्यनया सा तारणी । दुर्गस्य संसार- रूपस्य तारिणी, संसारार्णवमनया तरन्तीत्यर्थः । तारणीति णिजन्तात्तरतेः 'करणा- धिकरणयोश्च' (पा. ३,३,११७ ) इति करणे ल्युट् । ततः 'टिड्ढाणञ्-' (पा. ४|१|१५) इत्यादिना ङीप् । 'तारिणी' इति पाठे तारयति लोकान्सा तारिणी। दुर्गात्तारिणी । अत्र णिनौ कृते 'ऋन्नेभ्यः-' (पा. ४|१|५ ) इति ङीप् ॥ २९ ॥

  महेश्वरजटाजूटवासिनी पापनाशिनी ।
  सरागान्वयनिर्वाणकारिणी धर्मधारिणी ॥३०॥

पाठा०-१ आमन्त्र्य. २ अघविनाशिनी. ३ स्वर्ग. ४ सागरान्वय.