पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
[ सर्गः १०
कुमारसंभवे

 महेश्वरेति ॥ पुनश्च महेश्वरस्य जटाजूटे वासिनी वासवती पुनश्च पापना- शिनी। अत्रापि तारणीवत्प्रत्ययव्यवस्था। पुनश्च सरागस्य विषयलिप्सोरन्वयस्य वंशस्यापि निर्वाणकारिणी मोक्षकारिणी, किं पुनर्विमुक्तानामित्यर्थः । धर्मं धार- यतीति धर्मधारिणी । आत्मसंबन्धेन जन्तून्धर्मवतः कुर्वन्तीत्यर्थः ॥ ३० ॥

  विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता ।
  त्रिभिः स्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ॥ ३१ ॥

 विष्ण्विति ॥ पुनश्च विष्णुपादोदकादुद्भूतोत्पन्ना, विष्णुपादोदकमेवास्या जन्महेतुरित्यर्थः । विष्णुपादोदकमेवोद्भूतं प्रादुर्भूतं रूपं यस्याः सेति वा । पुनश्च ब्रह्मलोकादुपागतेहागता । पुनश्च त्रिभिः स्रोतोभिः प्रवाहैभुवनत्रयं स्वर्गमृत्यु- पाताललक्षणमश्रान्तं निष्परिश्रमं यथा भवति तथा पुनाना, पवित्रीकुर्वाणेत्यर्थः । अत एव त्रिस्रोता इति नाम दधातीत्यर्थः । 'पूञ् पवने' । शानच् श्नाप्रत्ययश्च ॥ ३१ ॥

  जातवेदसमायान्तमूर्मिहस्तैः समुत्थितः ।
  आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ॥ ३२ ॥

 जातवेदसमिति ॥ सुतरामतिशयिनो यः प्रसादस्तस्य धरा धारिणी सा गङ्गा । आयान्तमागच्छन्तं तं जातवेदसमग्निमर्थसिद्ध्या अर्थसिद्धिं कर्तुं समु- त्थितैरुच्चलितैर्मय एव हम्तस्तैः कृत्वा आजुहांवैव । अन्याऽपि हस्तसंकेतेन कंचिदाह्वयति । पुनः पुनरूर्मिसमुत्थानं तत्कर्तृकमाह्वानमिवेत्युत्प्रेक्षा । आङ्पूर्वात् ह्वयतेः कर्तरि लिट् ॥ ३२ ॥

  संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
  ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ॥ ३३॥

 संमिलद्भिरिति ॥ संमिलद्भिः सम्यङ्मिलन्त्येकीभवन्तीति तथोक्तैः । तथो- न्मदैरुन्मत्तैरत एव कलं मधुरं यथा भवति तथा कूजद्भिः शब्दायमानैर्मरालै- र्हंसैर्युक्ता सा देवी गङ्गा तमग्निमित्यभ्यधादुवाच । किमिति तत् ? भो अग्ने ! तुभ्यं श्रेयांसि ददे । दुःखानि निहन्मि । आत्मशक्त्याभिधाने जलरूपतयाऽशक्तापि स्वकीयतीरगतहंसनिनादेन वदति स्मेति भावः ॥ ३३ ॥

पाठा०-१पुनाति. २ समुच्छ्रितैः. ३ आजुहावास्य संसिद्ध्यै सुप्रसादादरेव सा.