पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १७-२२]
२२५
इन्द्रकृतं हुतभुक्स्तवनम्

भावः । अत एवोक्तं नीतौ-'अन्नदाता भयत्राता यश्च कन्यां प्रयच्छति । जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥' इति ॥ २० ॥

  अन्तश्चरोऽसि भूतानां तानि त्वत्तो भवन्ति च ।
  ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ २१ ॥

 अन्तरिति ॥ भो अग्ने ! त्वं भूतानां प्राणिनामन्तश्चरोऽन्तर्व्याप्यसि । तानि भूतानि च त्वत्तो भवन्त्युत्पद्यन्ते । तत उभयकारणतस्त्वं जीवितानि प्राणितानि भूतानि येन तथोक्तो जगतः प्राणदश्चासि । अग्नेरन्तराधेयतयैव प्राणिनां जीवन- मतो जीवितभूतत्वम् । अग्नेरेव जगदुत्पादकतया प्राणदत्वं चाासिद्धम् । उत्तर- वाक्यद्वयस्य पूर्ववाक्यद्वयान्तर्गतत्वात्पृथक्त्वेन ग्रहणं व्यर्थमिति चेन्न । अन्तर्व्यापि- त्वजीवितभूतत्वयोः साहचर्यप्रयुक्तं न सामानाधिकरण्यम्। यस्य यत्र यत्रान्तर्भावित्वं तस्य तत्र तत्र जीवितभूतत्वमिति नियमाभावात् । न च वह्निसंबन्धावच्छिन्नत्वेन तयोः सामानाधिकरण्यमिति वाच्यम् । वह्निसंबन्धावच्छिन्नत्वमन्तर्व्याप्तेः, तप्तायःपिण्डे न तत्र जीवितभूतत्वम् । अतो वह्निसंबन्धावच्छिन्नत्वेनापि समानाधिकरणतानियमः कर्तुं न शक्यते, उत्पादकत्वप्राणदत्वयोः साहचर्यनियमाभावात् । कुलालस्य सत्यप्युत्पादकत्वे प्राणदत्वं नास्ति । घटमुत्पादयतोऽपि कुलालस्य न जीवनदातृत्वशक्तिरित्यलं विवादेन । अतिगहनोऽयं विवादः । 'जगतः' इति षष्ठी प्राणान्वयान्न तु दानान्वयात् । अन्यथा 'कर्मणा यमभिप्रैति स संप्रदानम्' (पा. १|१४॥३२) इति संप्रदानत्वाच्चतुर्थी प्रसन्नतेति । ननु जगत इत्यस्य प्राणान्वये केवलसंबन्धवाचकत्वेन तस्य नित्यसंप्रदानविवक्षा केन निरस्यते ? एवं च संप्रदानान्तरं मृग्यं स्यात् । अथवा जगत्संबन्धिनां प्राणानां दानं जगत्संप्रदान- कमेवेत्यर्थात्संप्रदानसिद्धिः ॥ २१ ॥

  जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
  कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ॥ २२ ॥

 जगत इति ॥ भो अग्ने! त्वमेक एवास्य सकलस्य जगत उपकारकृद्धितकृदसि। अत एवास्माकं तत्र कार्योपपादने त्वत्तोऽन्यः । 'अन्यारात्-' (पा. २।३।२९) इति पञ्चमी । कः प्रगल्भते समर्थो भवेत् ? न कोऽपीत्यर्थः ॥ २२ ॥

पाठा०-१ अन्तश्चरसि. २ त्वद्बलवन्ति. ३ त्वत्तः. ४ जीवितभूयः. ५ तत.