दशमः सर्गः ।
आससाद सुनासीरं सदसि त्रिदशैः सह ।
एष त्रयम्बकं तीव्रं वहन्वह्निर्महन्महः ॥१॥
आससादेति ॥ एष वह्निः । तीव्रं दुःसहं महत्रैयम्बकं शैवम् । 'त्र्यम्बक'- शब्दात् इदमर्थकेऽणि 'न य्वाभ्याम्-' ( पा. ७|३|३ : इत्यैजादेशः । महो वीर्यं वहन् । त्रिदशैर्देवैः सह सदसि सभायां स्थितं सुनासीरं महेन्द्रमाससाद प्राप । 'वृद्धश्रवाः सुनासीरः' इत्यमरः ॥ ३ ॥
सहस्रेण दृशामीशः कुत्सिताङ्गं च सादरम् ।
दुर्दर्शनं ददर्शाग्निं धूम्रधूमितमण्डलम् ॥२॥
सहेति ॥ कुत्सिताङ्गमत एव दुर्दर्शनं धूम्रं धूम्रवर्ण धूमितं संजातधूमम् । तारकादित्वादितच । मण्डलं यस्य तमग्निमीशो महेन्द्रो दृशां सहस्रेण सादरं यथा तथा ददर्श दृष्टवान् ॥ २ ॥
दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा ।
व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेपिरोपजम् ॥ ३ ॥
दृष्ट्वेति ॥ इन्द्रो वह्निं नथाविधं दृष्ट्वा क्षुब्धेन संचलितेन चेतमा कन्दर्पद्वेषिणो हरस्य रोषाज्जातं किंचिदपराधलक्षणं चिरं व्यचिन्तयत् ॥ ३ ॥
स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम्
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ॥ ४ ॥
स इति ॥ सोऽग्निर्विलक्ष्यमुखैर्म्लानमुखैर्देवैः क्षणं क्षणं प्रतिक्षणं वीक्ष्यमाणो दृश्यमानः सन् । सुरेन्द्रेण सादरमादिष्टमासनमुपाविशत् ॥ ४ ॥
हव्यवाह ! त्वयासादि दुर्दशेयं दशा कुतः ? ।
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ॥५॥
हव्यवाहेति ॥ सोऽग्निः । हे हव्यवाह! त्वया दुर्दशेयं दशाऽवस्था कुतो
पाठा०-१ तच्च; मत्वा. २ द्युसदां सोऽतिसादरम् ; द्युसत्संसदि सादरम्. ३ धूमिल.
४ क्रुद्धेन. ५ स्रवज्जलमुखैः; सविलक्षमुखैः. ६ सुमहादुर्दशा; सुदुर्दर्शा दशा.