पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४८-५२]
२१९
कैलासे हर-पार्वतीक्रीडावर्णनम्

'सरङ्गम्' इति पाठे भावे नलोपश्चिन्त्यः । गाढमालिलिङ्ग, अन्योऽपि भीनः सन् कंचिदालिङ्गति तद्वदिति भावः ॥ ५० ॥

 उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
 प्रपद्य सद्यः पुलकोपगूढः स्मरेण रूढप्रमदो ममाद ॥५१॥

उत्तुङ्गेति ॥ ईशो हरो रूढोपर्यारूढा प्रमदा पार्वती यस्यात एवोत्तुङ्गमुच्चैः पीनं पुष्टं यत् स्तनपिण्ढम् , उभयोरतिस्थूलतया परस्परसंयुक्तत्वात्पिण्डीभूतमिति भावः । तेन कृत्वा पीडा यत्र । तथा ससंभ्रमं सभयं तस्यास्तत्कर्तृकं परिरम्भ- माश्लेषं प्रपद्य प्राप्य स्मरेण कामेन हेतुना सद्यः सहसा पुलकैरुपगूढः सन् ममाद मत्तो बभूव ॥ ५५ ॥

 इति गिरितनुजाविलासलीलाविविधविभंगिभिरेष तोषितः सन् ।
 अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ।। ५२॥

इतीति ॥ गिरीन्द्रे कैलासे कृता वर्सातर्येन तथाऽमृतकरश्चन्द्रः शिरसि मणि- रिव यस्य स एष हर इत्येवंभूतैर्गिरितनुजायाः पार्वत्याः संबन्धिनी या विलास- लीला सकामचेष्टाक्रीडा तस्या विविधा नानाविधा या विभङ्ग्यो रचनास्ताभि- स्तोषितः प्रीतः सन् । वशिभिः स्ववशंगतैर्गणैर्नन्दिप्रभृतिभिः सह ननन्द जहर्ष । तेषां हर्षोऽनयोरलौकिकक्रीडादर्शनादिति भावोऽनुसंधेयः । पुष्पिताग्रा वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ ५२ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
कैलासगमनो नाम नवमः सर्गः ।

पाठा०---१ पीठ. २ मुतया.