पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १४-२०]
२०९
संभोगवेश्मतः शिवस्य निर्गमनम्

इव । तथा हिमेन शीतेन प्लुष्टो दग्धः । 'प्लुष दाहे' कर्मणि निष्ठा । सरोजकोश इव । वपुः स्वशरीरमुग्रस्य शिवस्य । 'उग्रः कपर्दी श्रीकण्ठः' इत्यमरः । रेतश्चयेन वीर्यसंघातेन । 'शुक्रं तेजोरेतसी च' इत्यमरः । हेतुभूतेन विरूपं भ्रष्टशोभ- मेतादृशं वहन्निर्जगाम संभोगवेश्मतो निःसृतवान् । 'किल' इति प्रसिद्धौ ॥ १७ ॥

 स १पावकालोकरुपा विलक्षां स्मरत्रपास्मेरविनम्रवक्राम् ।
 विनोदयामास २गिरीन्द्रपुत्रीं शृङ्गारग:मधुरैर्वचोभिः ॥१८॥

 स इति ॥ पावकस्य वढेरालोकेन या रुट् क्रोधस्तया हेतुना विलक्षां विरूपो विकृतिमापन्नो लक्षो लक्षणं चिह्नं शरीरशोभा यस्यास्ताम् । तथा स्मरत्रपाभ्यां कामलजाभ्यां स्मरं सस्मितं विनम्रं नतं च वक्रं यस्यास्तथोक्तां गिरीन्द्रपुत्रीं पार्वतीं स हरः शृङ्गारगर्भैरत एव मधुरैर्वचोभिर्विनोदयांमास, प्रसादितवानित्यर्थः ॥ १८ ॥

 हरो विकीर्णं घनघर्मतोयैर्नेत्राञ्जनाङ्कं ३हृदयप्रियायाः ।
 द्वितीयकौपीनचलाञ्चलेनाह४रन्मुखेन्दोरकलङ्किनोऽस्याः५।।१९।।

 हर इति ॥ हरो हृदयस्य प्रियाया अस्याः पार्वत्याः अकलङ्किनो मुखेन्दोः संबन्धिन तथा घनानि यानि धर्मतोयानि प्रस्वेदजलानि तैर्विकीर्णं व्याप्तं नेत्र- योरञ्जनमेवाङ्कः कलङ्कस्तं द्वितीयं यत् कौपीनं योगिनः स्कन्धलम्बि वस्त्रम् । 'कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च' इति मेदिनी । तस्य चलं यदञ्चलं प्रान्तस्तेनाहरद्धृतवान् , अकलङ्कस्य कलाङ्कानौचित्यादिति भावः ॥ १९ ॥

 मन्देन ६खिन्नाङ्गुलिना ७करेण कम्प्रेण तस्या बदनारविन्दात् ।
 परामृशन् धर्मजलं जहार हरः ८सहेलं व्यजनानिलेन ॥२०॥

 मन्देनेति ॥ हरः शिवः । मन्देन लघुप्रचारेण । तथा खिन्ना अलसप्रयोगेणो- दासीना अङ्गुलयो यस्य तेन । तथा कम्प्रेण कम्पशीलेन । 'नमिकम्पिस्म्यजसकम्-' (पा. ३।२।१६७) इति रः । करेण कृत्वा तस्याः पार्वत्या बदनारविन्दाद्धर्मस्य, धर्मरूपं वा जलं परामृशन्विश्लेषयन्सहेलं सक्रीडं यथा तथा व्यजनस्यानिलेन कृत्वा जहार ॥२०॥

पाठा० . १ आलोकनतः. २ नगेन्द्र. ३ सदयं प्रियायाः. ४ हरन्. ५ अपि.

६ खिन्नाङ्गुलिना. ७ कम्पेन; प्रेम्णा च, ८ सलीलं.