पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
[ सर्गः ९
कुमारसंभवे

जयाय शत्रुपराजयार्थं शक्रस्य सेनाधिपतेस्तारकारेस्तारकशत्रोः, अपत्यस्येत्यर्थः । भवाय जन्मने, तत्कर्तुमित्यर्थः । भावि भविष्यत्किंचिच्चेतसि व्यचिन्तयत्, विच- चारेत्यर्थः ॥ १३॥

 युगान्तकालानिमिवाविषयं परिच्युतं मन्मथरङ्गभङ्गात् ।
 रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ॥१४॥

 युगान्तेति ॥ अथ स शिवः, युगान्तकालस्याग्निमिवाविषह्यं सोदुमशक्यं मन्मथरङ्गस्य कामक्रीडाया भङ्गाद्धेतोः परिच्युतं भ्रष्टं तथाऽमोघं सफलं तत्प्रसिद्धं रतान्तस्य सुरतान्तस्य रेतो वीर्यं हिरण्यरेतसि वह्नावाधान्निदधे। यत ऊर्ध्वरेताः, ऊर्ध्वगामिवीर्यं इत्यर्थः ॥ १४ ॥

 १अथोष्णबाष्पानिलपितान्तं विशुद्धमादर्शमिवात्मदेहम् ।
 बभार भूम्ना सहसा पुरारिरेतः २परिक्षेपकुवर्णमग्निः ॥ १५ ॥

 अथेति ॥ अथानन्तरमग्निर्विशुद्धमात्मदेहमुष्णबाष्पानिलेन मुखनिःश्वासेन दूषितं म्लानीकृतमन्तर्मध्यं यस्य तमादर्शमिव सहसा भूम्ना बाहुल्येन पुरारेः शिवसंबन्धिनो रेतसः परिक्षेपम्तेन कुवर्णं कुत्सितवर्णं बभार धृतवान् ॥ १५ ॥

 त्वं सर्वभक्षो भव भीमका कुष्ठाभिभूतोऽनल! धूमगर्भः ।
 इत्थं शशापाद्रिसुता हुताशं ३रुष्टा रतानन्दसुखस्य भङ्गात् ॥ १६ ॥

 त्वमिति ॥ रतानन्दः सुरतानन्दस्तत्र यत् सुखं तस्य भङ्गादन्तरायाद्धेतो रुष्टाऽद्रिसुता पार्वती । हे अनल! त्वं सर्वं मेध्यममेध्यं वा भक्षति तथोक्तः । तथा भीमं भयानकं कर्म यस्य । तथा कुष्टेनाभिभूतः पराभूतः । तथा धूमो गर्भे मध्ये यस्य तथोक्तश्च भव । इत्थं हुताशमग्निं शशाप, शपति स्मेत्यर्थः । अत्र शीप्स्य- मानत्वाभावात् 'श्लाघह्नुङ्स्था-' (पा. १|४|३४ ) इति न संप्रदानत्वम् ॥ १६ ॥

 दक्षस्य शापेन शशी ४क्षयीव ५प्लुष्टो हिमेनेव सरोजकोशः।
 वहन्विरूपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ॥ १७ ॥

 दक्षस्येति ॥ वह्निरग्निर्दक्षस्य शापेन द्वेतुना क्षयी क्षयरोगवाशशी चन्द्र

पाठा०-१ अथोष्मबाष्पानलदूषितान्तर् अत्युष्णबाष्पानिलदूषितान्तर्.

२ परिक्षिप्तकुवर्णम् ; परिक्षेपविवर्णम्. ३ तथा. ४ क्षयाय. ५ पृष्टः.