पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
[ सर्गः ८
कुमारसंभवे

किं कीदृशं गुणान्तरमन्यं गुणं करिष्यति ? अपि तु नेत्यर्थः । यतस्ते तव मुखं स्वभावतः स्वभावेनैवार्द्रकेसरवत्सुगन्धि । तथा मत्ते रक्ते नयने यस्य तथोक्तं चास्ति । ये ये मदगुणास्ते ते मदात्प्रागेव वर्तन्ते, अतः किमनेन मदेन कर्तव्यमिति भावः ॥ ७६॥

 मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
 इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥७७॥

 मान्यभक्तिरिति ॥ हे प्रिये ! अथवा मान्या भक्तिभावो यस्य तादृशः सखीजनोऽनङ्गस्य कामस्य दीपनमिदं मधु सेव्यतामित्युदारमभिधाय शंकरस्तामम्बिकां पार्वतीं पानं मदिरामपाययत ॥ ७७ ॥

 पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
 अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ ७८ ॥

 पार्वतीति ॥ पार्वती कर्त्री । तदुपयोगसंभवां मद्यपानजन्यां विक्रियामपि सतां मनोहराम् । आम्रताम्रत्वमप्रतर्क्यो दुर्ज्ञेयो यो विधियोगोऽनुष्ठानयोगस्तेन निर्मितां सहकारतामतिसौरभत्वमिव ययौ, प्रापेत्यर्थः । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। आम्रमेवानुष्ठानविशेषेण यथा सहकारं भवति तद्वद्विक्रियापि मनोहराऽभूदिति भावः ॥७८ ॥

 तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः ।
 सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥७९।।

 तत्क्षणमिति॥ तत्क्षणं मदिरापानानन्तरसमय एव सा सुवदना पार्वती विपरिवर्तिता नष्टा ह्रीर्ययोरत एवेद्धः प्रवृद्धो रागो ययोरत एव शयनं नेष्यतोः, सुरतार्थमिति भावः। शूलिनः शिवस्य मदस्य चेत्यनयोर्द्वयोर्वशवर्तिनी वशंगता बभूव ७९

 घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दु मदकारणस्मितम् ।
 आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ।। ८० ॥

 घूर्णेति ॥ धूर्णमाने नयने यत्र । तथा स्खलन्ती कथा वाग्यत्र । तथा स्वेदस्य

पाठा०-१ दीपकम्. २ तदुपभोग. ३ निर्मिता. ४ नम्रता. ५ तत्क्षणे. ६ विपरि-

वृत्तलज्जयोः. ७ वाञ्छतोः. ८ वशवर्तिका. ९ स्खलद्वचः; स्खलत्कचम्. १० बिन्दुमद,