भिरुत्थितैरुत्थापितैरेभिः पुरोवर्तिभिः शाखिनां संबन्धिभिः पत्रैर्जर्जरिता ये शशिनः प्रभाया लवा अंशास्तैस्तवालकानुत्कचयितुमुद्ग्रथितुं शक्यम् , शक्येन भूयतामित्यर्थः । काचित्तव सखी पुष्पप्रतिनिधित्वेन वृक्षाधःपतितजर्जरीभूतचन्द्रकान्तिशकलैः केशानुद्ग्रथयत्विति भावः ॥ ७२ ॥
एष चारुमुखि ! योग्यतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥ ७३ ।।
एष इति ॥ हे चारुमुखि ! एष शशी । वरः परिणेता नवदीक्षया नवपरिणीतयाऽत एव साध्वसाद्भयादुपगतः प्रकम्पो यस्यास्तया कन्ययेव । तरलबिम्बया चपलमण्डलया योग्यतारया सदृशतारकया युज्यते युनक्ति । त्वं पश्य ॥ ७३ ॥
पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रकृतिजप्रसादयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ७४
पाकेति ॥ हे प्रिये ! चन्द्रबिम्बेन निहिता स्थापिता तवाक्ष्णि नेत्रे या चन्द्रिका सा। पाके भिन्नो यः शरकाण्डस्तृणविशेषस्तद्वद्गौरयोः। तथोल्लसन्प्र- कृतिजः स्वभावजः प्रसादः प्रसन्नता ययोस्तयोस्तव गण्डलेखयोरुपरि रोहतीव आरोहणं करोतीवेत्युत्प्रेक्षा ॥ ७४ ॥
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु विभ्रती स्वयम् ।
त्वामियं स्थितिमतीमुपागता गन्धमादनवनाधिदेवता ॥७५॥
लोहितेति ॥ लोहिता रक्ता येऽर्कमणयस्तेषां भाजनं पात्रं तत्रार्पितं स्थापित कल्पवृक्षाणां मधु मकरन्दस्तद्विभ्रतीयं गन्धमादनवनस्याधिदेवता स्थितिमतीं स्थिरां त्वामुद्दिश्य स्वयमुपागता। त्वं पश्य, तुभ्यं मदिरां दातुमागच्छतीत्यर्थः ॥ ७५ ॥
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि ! मदः करिष्यति ७६
आर्देति ॥ हे विलासिनि ! अत्र लब्धा वसतिर्निवासो येन तथोक्तो मदः
पाठा०-१ चन्द्रमुखि. २ पश्य तारया; योगतारया. ३ पाण्डु. ४ प्रतिकृति-
प्रसन्नयोः; प्रतिकृतिप्रदीप्तयोः. ५ निहिताक्षि. ६ उपस्थिता; समागता. ७ प्रान्तरक्त; रक्तमेव; मत्तमेव. ८ कम्. ९ मधुः.