तन्नभस्तलं द्विरदभोगेन दूषितं मलिनं प्राक् पुनश्च कालान्तरेण सप्रसादं निर्मलं मानसं सर इव लक्ष्यते । त्वं पश्य, जलस्य नीलत्वादिति भावः ॥ ६४ ॥
रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥६५॥
रक्तभावमिति ॥ हे प्रिये ! एष चन्द्रमा रक्तभावं रक्तिमानमपहाय मुक्त्वा परिशुद्धं विशदं मण्डलं यस्य तथोक्तो जातः । तथा हि-निर्मलप्रकृतिषु वस्तुषु कालदोषेण जाता विक्रिया विकारः स्थिर उदय उत्पत्तिर्यस्यास्तादृशी न भवति खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥६५॥
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः॥६६॥
उन्नतेष्विति ॥ हे प्रिये! शशिनः प्रभा चन्द्रिकोन्नतेपु स्थलेपु स्थिता वर्तते । तथा निशातमः कर्तृ । निम्नेषु नीचेषु संश्रयो यस्य तत्तथोक्तं वर्तते । तथा हि-गुणदोषयोर्गतिर्वेधसा विधिना : आत्मना नीचेनोच्चेन च सदृशी प्रकल्पिता रचिता हि नूनम् । नीचात्मा नीचस्थ एव भवति । उच्चात्मा उच्चस्थ एवेत्यर्थः ॥ ६६॥
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ।। ६७ ।।
चन्द्रेति ॥ गिरिर्मेखलासु नितम्बेषु ये तरवस्तेषु निद्रितान्सुप्तान् न शिखण्डिनो मयूरान् चन्द्रस्य पादैर्जनिता प्रवृत्तिनिर्गमनं येषां तैश्चन्द्रकान्तस्य ये जलबिन्दवस्तैः कृत्वाऽसमये बोधयति जागरयति । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति मेदिनी ॥ ६७ ॥
कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव पश्य सुन्दरि!।
हारयष्टिरचनामिवांशुभिः कर्तुमागतकुतूहलः शशी ६८।।
कल्पेति ॥ हे सुन्दरि! संप्रति शशी चन्द्रः प्रस्फुरद्भिरंशुभिः कृत्वा हारयष्टि-
पाठा०-१ वेधसैव. २ इह; एव. ३ इमान्. ४ अविकल्पसुन्दरि; व भु.
सुन्दरि. ५ गणनाम्. ६ उद्यत.