पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
[ सर्गः ८
कुमारसंभवे

विप्रकृष्टं न जातं विवरमन्तरमुभयोस्तारतम्यं यस्य । त्वं पश्य सरःप्रतिबिम्बितचन्द्रमण्डलं फलिनीफलभ्रान्त्या जिघृक्षुतापूर्वकमुद्दिश्य गच्छन्मिथुनं, वस्तुतस्तु तत्र फलिनीफललाभाभावान्न्यस्तशस्त्रेण भूयत इति भावः । 'फलिन्यग्निशिखायां च फलिन्याम्' इति मेदिनी ॥ ६१ ॥

 शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
 अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥ ६२॥

 शक्यमिति ॥ हे प्रिये ! नव उदयो येषाम् । तथाऽप्रगल्भा नूतना ये यवास्तेषां सूचयोङ्कुरास्तद्वत्कोमलाः । ओषधीनां पत्युश्चन्द्रस्य कराः किरणाः कर्णपूरस्य रचनाकृते रचनायै तवाग्राणि ये नखसंपुटास्तैः । तेषामतितैपक्ष्ण्यादिति भावः । छेत्तुं द्विधाकर्तुं शक्यम् , शक्तैर्भूयत इत्यर्थः । शक्नोतेः 'ऋहलोः-' (पा. ३।१।१२४) इति भावे ण्यत् । यवाङ्कुरवत् कोमलांश्चन्द्रकरानुत्तार्य त्वया कर्णपूरं कर्तुमुत्साहः क्रियतामिति भावः ॥ ६२ ॥

 अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥६३ ॥

 अङ्गुलीभिरिति ॥ शशी चन्द्रः । कुड्मलीकृते मीलिते सरोजे एव लोचने यस्य तत्तथोक्तं रजन्या मुखं वदनं अङ्गुलीभिरिव मरीचिभिः किरणैः केशसंचयमिव तिमिरं तमः संनिगृह्य हठाद्गृहीत्वा चुम्बतीव । अन्योऽपि कश्चिच्चुम्बन् केशसंचयं संनिगृह्णाति । चुम्बनसमये केशसंनिग्रहे यः कोऽपि रसोद्बोधः स तद्वेद्यैकवेद्य इत्यर्थः । समासोक्तिरलंकारः ॥ ६३ ॥

 पश्य पार्वति! नवेन्दुरश्मिभिर्भिन्नसान्द्रतिमिरं नभस्तलम् ।
 लक्ष्यते द्विरदभोगदूषितं सप्रसादमिव मानसं सरः॥६४ ॥

 पश्येति ॥ हे पार्वति! नवस्येन्दो रश्मिभिर्भिन्नं सान्द्रं सघनं तिमिरं यस्य पाठा०-१ शक्यः. २ नवोदयः. ३ नवाः. ४ कोमलः.५ करः. ६ भग्नसान्द्र; सामिभिन्न; संविभिन्न. ७ संप्रसीदत्.


टिप्प०-1 वामनोऽप्याह (काव्या. सू. ५।२।२२) 'शक्यमिति रूपं कर्माभिधायां

लिङ्गवचनस्यापि सामान्योपक्रमात्' इति । अत्रोदाहरणम्-'शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुं' इति भाष्यकारप्रयोगः । इति ।