पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
[ सर्गः ८
कुमारसंभवे

दादीतया तया पार्वत्या कण्ठे सक्तं सज्जितं दृढं बाहुबन्धनं यस्य स तथोक्तः सद् विशदाः स्वच्छाः, शारदिका इति भावः । शशिनः प्रभाः कौमुदीर्निर्विवे- शोपभुक्तवान् ॥ २४ ॥

 तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।
 आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। २५ ॥

 तस्येति ॥ जातु कदाचित् । तस्य तत्कर्तृके । मलयस्थलीषु रतं सुरतं तत्र सति । धूताः कम्पिताश्चन्दनानां चन्दनवृक्षाणां लताः शाखा येन स तथोक्तः । लवङ्गानां केसरैः किञ्जल्कैः सह वर्तत इति तथोक्तः । दक्षिणानिलो मलयपवनः। चाटुकार इव मधुरभापीव । प्रियायाः क्लमं खेदमाचचाम, हृतवानित्यर्थः ॥२५॥

 हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
 सा व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥२६॥

 हेमेति ॥ सा उमा पार्वती हेम्नस्तामरसेन रक्तोत्पलेन तटोत्पनेन ताडितः प्रियो यया सा, परिहासविधित्सयेति भावः । तथा तस्य प्रियस्य कराम्बुना हस्ताक्षिप्त- जलेन विनिमीलिते ईक्षणे नेत्रे यया। तथा मीनपङ्क्त्या पुनरुक्ता मेखला रशना यस्यास्तथोक्ता सती। तरङ्गिणी नदी व्यगाहत विजगाहे, जलक्रीडां चकारेत्यर्थः। 'तरङ्गिणी शैवलिनी' इत्यमरः ॥ २६ ॥

 तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
 नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ।। २७ ।।

 तामिति ॥ अयुग्मानि विषमाणि, त्रीणीति यावत् । लोचनानि यस्य स तथोक्तः शिवो नन्दन इन्द्रोद्याने पुलोमतनया शची। 'पुलोमजा शचीन्द्राणी' इत्यमरः । तस्या अलकेषु कशेषूचितैः पारिजातकुसुमैः कल्पवृक्षपुष्पैस्तां पार्वती प्रसाधयन्भृषयन् , तथा सुरवधूभिर्देवाङ्गनाभिः सस्पृहमीक्षितः सन् , चिरमव- सदिति शेषः ॥ २७॥

 इत्यभौममनुभूय शंकरः पार्थिवं च दयितासखः सुखम् ।
 लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत ॥२८॥

पाठा०-१ रतेधूतचन्दनलतः; रते धूतचन्दनवनः, २ सतुषारशीतलः. ३ खे. ४ मेखलाम्. ५ सुरवधूभिरेक्ष्यत; सुरवधूनिरीक्षितः; सुरवधूभिरैक्षत. ६ वनिता.

७ गिरिम्.