पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १९-२४]
१८५
हिमालयाज्ञामादाय पर्वते विहरणम्

संपतन्संचरमाणो विजहार विहारं कृतवान् । इह 'संचरन्' इति पाठोऽसाधुः । 'समस्तृतीयायुक्तात्' (पा.१।३।५४) इति नित्यमात्मनेपदनियमाच्छतुर्दोर्लभ्यात् । अमन्तमार्गपद शेषयित्वा सकर्मकत्वादप्रसङ्ग इति केचित्समर्थयन्ते ॥ २५ ॥

 मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती ।
 हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥ २२ ॥

 मेरुमिति ॥ मरुदिवाशु गच्छतीति मरुदाशुग उक्षा वृषभो यस्य सः । 'शेषाद्विभाषा' (पा.५।४।१५४) इति कप् । कृती कुशलो हरः । मेरुं सुमेरुम् । 'मेरुः सुमेरुहेमाद्रिः' इत्यमरः। एत्यागत्य पार्वत्याः स्तनाभ्यां पुरस्कृतान्पूजितानाश्रयत्वेन स्वीकारात् । अल्पीयसां महत्स्वीकार एव पूजात्वेन परिणमतीति भावः। महतामल्पीयःस्वीकारे को हेतुरित्याशङ्क्या विशेषयति-सुरतेति । सुरतेषु यानि मर्दनानि तेषु क्षमान्सहिष्णून् । हेम्नः पल्लवानां विभङ्गाः खण्डास्तेषां संस्तरानास्तरणान्यन्वभूत् , तत्र सुप्त्वा विजहारत्यर्थः । अल्पीयसामपि सहिष्णुत्वं हेम्नो विकारत्वात् । अल्पीयस्त्वं तु पदो लवः पल्लव इति श्लिष्टार्थमहिम्ना समर्थ्यते ॥२२॥

 पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः ।
 मॅन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥ २३ ॥

 पद्मनाभेति ॥ हरः। पद्मनाभो हरिः । ‘पद्मनाभो मधुरिपुः' इत्यमरः। तस्य चरणाभ्यामङ्किताश्चिह्निता अश्मानो येषाम् । एतेन हरेरपि विहारयोग्यत्वं ध्वन्यते । तथा नवा अमृतविप्रुषोऽमृतबिन्दून् । 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्यमरः। प्राप्तवत्सु, समुद्रमन्थनसाधनत्वादस्येति भावः । मन्दरस्य च कटकेषु नितम्बेषु । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । पार्वत्या वदनरूपे पद्मे षट्पदो भ्रमरः सन् । अवसद्वासमकरोत् ॥ २३ ॥

 रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः ।
 एकपिङ्गलगिरौ जगद्गुरुनिर्विवेश विशदाः शशिप्रभाः ॥२४॥

 रावणेति ॥ जगतां गुरुनियन्ता । उत्पत्त्यादित्रिविधकर्मणां गुणभेदेन कार- कत्वादिति भावः । शिवः । एकपिङ्गलस्य कुबेरस्य । 'यक्षैकपिङ्गैलविलश्रीदपुण्य- जनेश्वराः' इत्यमरः। गिरौ कैलासे रावणस्य प्रसिद्धराक्षसस्य ध्वनितात्सिंहना-

पाठा०-१ आशुवाहनः, २ संस्तराम्. ३ सुरततत्परः क्षपाम्. ४ वलय. ५ मान्दरेषु. ६ वारणखनित. ७ मृदु. ।