पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८९-९४]
१७५
सपार्वतीकस्य शिवस्य कौतुकागारप्रवेशनम्

प्रयुक्तरागमित्यर्थः । यथाह काहल:- 'रौद्रेऽद्भुते तथा वीरे पुंरागेण प्रगीयते । शृङ्गारहास्यकरुणाः स्त्रीरागेण प्रकीर्तिताः ॥ भयानके च बीभत्से शान्ते गेयो नपुंसके ॥' इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् । 'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः । आदौ भवमाद्यम् , रूपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तं—'आहुः प्रकरणादीनां नाटकप्रकृतिं बुधाः' इति अप्सरसामुर्वश्यादीनाम् । प्रयुज्यत इति प्रयोगो रूपकम् , नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहूर्तमपश्यतां दृष्टवन्तौ । 'पाघ्राध्मास्था-'(पा.७।३।७८) इत्यादिना दृशेः पश्यादेशः ॥ ९१ ॥

 देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य ।
 शापावसाने प्रतिपन्नमूर्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९२ ॥

 देवा इति ॥ देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसान ऊढभार्यं परिणीतदारं हरं किरीटेषु बद्धा अञ्जलयो येषां ते तथोक्ताः सन्तः। निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेर्लब्धशरीरस्य, ‘परिणेष्यति पार्वतीं यदा'(४।४२) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्चशरस्य कामस्य कर्तुः । सेवां ययाचिरे, पुनः समासादितशरीरस्य तस्य सेवा स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । 'दुह्याच्पच्-' (वा. १०९०।९१) इत्यादिना द्विकर्मकत्वम् ॥ ९२ ॥

 तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
 कालप्रयुक्ता खलु कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति ॥९३॥

 तस्येति ॥ विमन्युर्विगतक्रोधो भगवानीश्वर आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने। तथा हि-कार्यविद्भिः कार्यज्ञैः, अथवा कालविद्भिः अवसरज्ञैः । काले योग्यावसरे प्रयुक्तानुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु, सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो यदात्मन्यपि तत्सायकव्यापारमङ्गीकृतवानिति ॥ ९३ ॥

  अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य
   क्षितिधरपतिकन्यामाददानः करेण ।
  कनककलशयुक्तं भक्तिशोभासनाथं
   क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ९४ ॥

पाठा०-१ प्रतिलब्ध. २ काले प्रयुक्ता. ३ कालविद्भिः. ४ आदधानः, ५ रक्षा.