पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
[ सर्गः ७
कुमारसंभवे

 तदीषदार्द्रारुणगण्डलेखमुच्छ्वसिकालाञ्जनरागमक्ष्णोः ।
 वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्बभूव ॥ ८२ ॥

 तदिति ॥ तद्विधूमुखमाचारधूमग्रहणादाचारप्राप्तधूमत्वादीषदार्द्रे स्विन्ने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथोक्तम् । अक्ष्णोरुच्छ्वास्युद्गच्छन्कालाञ्जनस्य रागो रञ्जनं यस्य तत्तथोक्तम् । क्लान्तो यवावतंसो यवाङ्कुरकर्णपूरो यस्य तत्तथाभूतं बभूव । 'लाजाञ्जलिं विसृज्य धूमाग्रं समाजिघ्रेत्' इति प्रयोग- वृत्तिकारः ॥ ८२ ॥

 वधूं द्विजः प्राह तवैष वत्से ! वह्निर्विवाहं प्रति कर्मसाक्षी ।
 शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥८३।।

 वधूमिति ॥ अथ वधूं द्विजः पुरोधाः प्राह । किमिति ? । हे वत्से ! वह्निस्तव विवाहं प्रति, विवाहकर्मणीत्यर्थः । कर्मसाक्षी कर्मद्रष्टा । भर्त्रा शिवेन सह मुक्तविचारया निर्विचारया त्वया धर्मचर्या धर्माचरणं कार्या कर्तव्येति । अयं च प्राजापत्यविवाहो द्रष्टव्यः । यथाहाश्वलायनः (गृह्य.१।६१)—'सह धर्मचरतमिति प्राजापत्यः' इति ॥ ८३

 आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या।
 निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या।।८४॥

 आलोचनान्तमिति ॥ भवस्य पत्न्या भवान्या। 'इन्द्रवरुणभवशर्वरुद्र-' (पा. ४।१।४) इत्यादिना ङीष्, आनुगागमश्च । आलोचनान्तं नेत्रान्तपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' (पा. २११।१३) इत्यव्ययीभावः । श्रवणे श्रोत्रे वितत्य विस्तार्य तत्पूर्वोक्तं गुरोर्याज्ञिकस्य वचनं 'सह धर्मं चर' इति वाक्यं निदाघकाले ग्रीष्मकाले उल्बणतापयोत्कटसंतापया पृथिव्या प्रथममाद्यं माहेन्द्रं पार्जन्यमम्भ इव पीतम् , अत्यादरेण शुश्रावेत्यर्थः ॥ ८४ ॥

 ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
 सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ।। ८५ ॥

 ध्रुवेणेति ॥ प्रियं दर्शनं यस्य कर्मभूतस्य तेन प्रियदर्शनेन ध्रुवेण शाश्वतेन

पाठा०-१ पूर्वसाक्षी. २ श्रवणो. ३ तप्तयेव. ४ कण्ठम्.