पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८२-८८]
१७३
वधूवरयोरार्द्राक्षतारोपणविधिः

भर्त्रा ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय । 'ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु' इत्यमरः । प्रयुज्यमाना 'दृश्यताम्' इति प्रेर्यमाणा ह्रीसन्नकण्ठी ह्रिया हीनस्वरा सा वधूः कथमप्याननमुन्नमम्य 'दृष्टः' इत्युवाच ॥ ८५ ॥

 इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
 प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥८६॥

 इत्थमिति ॥ इत्थमनेन प्रकारेण 'इदमस्थमुः' (पा. ५.३।२४) इति थमुप्रत्ययः। विधिज्ञेन विवाहप्रयोगज्ञेन, शास्त्रज्ञेनेत्यर्थः । पुरोहितेन हैमवतेन प्रयुक्तपाणिग्रहणोपचारौ कृतविवाहकर्माणौ प्रजानां पितरौ तावुमामहेश्वरौ पद्मासनस्थाय पद्मासनोपविष्टाय पितॄणां पित्रे पितामहाय ब्रह्मणे । 'पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च' इति विश्वः । पितृव्यमातुलमातामहपितामहाः'(पा. ४।२।२६) इति निपातनात्साधु । प्रणेमतुर्नमश्चक्रतुः। पितामहस्य पित्रोरपि पूज्यत्वादिति भावः ॥ ८६ ॥

 वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि ! वीरप्रसवा भवेति ।
 वाचस्पतिः सन्नपि सोऽष्टमूर्तौ त्वाशास्यचिन्तास्तिमितो बभूव।।८७।।

 वधूरिति ॥ वधूः कन्या विधात्रा ब्रह्मणा, हे कल्याणि शोभने ! वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरसूर्भवेति प्रतिनन्द्यते स्म, आशिषमुक्तेत्यर्थः। स विधाता वाचस्पतिर्वागीश्वरोऽपि सन् । 'कस्कादिषु' (पा. ८।३।४८)पाठात्साधुः । अष्टमूर्तौ शिवे त्वाशास्यमाकाङ्क्षयं तत्र चिन्ता विचारस्तस्यां स्तिमितो मन्दो बभूव, तस्य निरीहस्याभावादाशिषि स्तिमितत्वमित्यर्थः ॥ ८७ ॥

 क्लृप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चात्कनकासनस्थौ ।
 जायापती लौकिकमेषणीयमार्द्राक्षतारोपणमन्वभूताम् ।।८८॥

 क्लृप्तेति ॥ तौ जायापती वधूवरौ पश्चान्नमस्कारानन्तरं क्लृप्ता रचिता उपचाराः पुष्परचनादयो यस्यां तां चतुरस्रवेदीमेत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितम् , आचारप्राप्तमित्यर्थः । अत एवैषणीयमाशास्यम् , 'तथाहि लौकिकाचारं मनसापि न लङ्घयेत्' इति शास्त्रादवश्यकर्तव्यमित्यर्थः । इषेरिच्छार्थादिनीयर्प्रत्ययः । आर्द्राक्षतारोपणमन्वभूताम् ॥ ८८ ॥

पाठा०-१ उन्नत. २ मूर्तावाशास्य. ३ एषितव्यम्.