पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
[ सर्गः ७
कुमारसंभवे

 स प्रापदप्राप्तपराभियोग नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
 पुरोविलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव 1कृष्यमाणः ॥ ५० ॥

 स इति ॥ स वाहः, न प्राप्तः पराभियोगः शत्रुसमाक्रान्तिर्यस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरमोषधिप्रस्थं पुरोऽग्रे विलग्नैः संक्रान्तैर्हरदृष्टि- पातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात्प्रापत् , अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता हरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षण- दामानीवालक्ष्यन्तेत्यर्थः ॥ ५० ॥

 तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
 स्व2बाणचिह्नादवतीर्य 3मार्गादासन्नभूपृष्ठमियाय देवः ।। ५१ ॥

 तस्येति ॥ तस्य पुरस्योपकण्ठेऽन्तिके घनो मेघ इव नीलः कण्ठो यस्य स घननीलकण्ठो देवः कुतूहलाद्दर्शनौत्सुक्यादुन्मुखैः पौरैर्दृष्टः सन् । स्वबाण. चिह्नात्रिपुरविजयसमये स्वबाणाङ्कान्मार्गात्कुतश्चिदाकाशदेशादवतीर्यावरुह्यासन्न- भूपृष्ठं निकटभूतलमियाय प्राप ॥ ५ ॥

 तमृद्धिमद्वन्धुजनाधिरूढैर्वृन्दैर्गजानां गिरिचक्रवती ।
 प्रत्युञ्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ।। ५२ ॥

 तमिति ॥ आगमनेन शिवागमनेन प्रतीतो हृष्टो गिरिचक्रवर्ती पर्वताधिराजो हिमवानृद्धिमता वस्त्रालंकारादिसमृद्धेन बन्धुजनेनाधिरूढैः । अनेन बन्धूनां समस्वाम्यं सूचितम् । गजानां वृन्दैः प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः स्वैः स्वकीयैः कटकैर्नितम्बैरिव तं हरं प्रत्युजगामाभिययौ । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः ॥ ५२ ॥

 वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।
 समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवोधौ ॥ ५३॥

 वर्गाविति ॥ दूरविसर्पी दूरगामी घोषो ययोस्तौ देवाश्च महीधराश्च तेषां देवमहीधराणामुभौ वर्गावुद्धटितापिधानेऽपनीतकवाटे पुरस्य द्वारे भिन्नो दीर्णं एकसेतुर्ययोस्तौ भिन्नैकसेतू पयसामोधौ प्रवाहाविव समीयतुः संगतौ ॥ ५३ ॥

पाठा०-१ कृष्यमाणम्. २ स्ववाहवाहात.. ३ वाहात्.