पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५०-५६]
१६३
हिमवन्नगरे हरस्य प्रवेशः

 ह्रीमानभूभूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
 पूर्व महिम्ना स हि तस्य 1दूरमावर्जितं नात्मशिरो विवेद ॥५४॥

 ह्रीमानिति ।। भूमिधरो हिमवान् । यो लोकास्त्रैलोक्यम् । चातुर्वर्णादि- त्वात्ष्यञ्प्रत्ययः। तस्य वन्द्येन नमस्कार्येण हरेण कृतप्रणामः सन् ।'ऋविक्पितृव्य- श्वशुरमातुलानां यवीयसाम् । प्रवयाः प्रथमं कुर्यात्प्रत्युत्थायाभिवादनम् ॥' इति स्मरणात् । हीमानभूत् , महादेवं प्रति स्वयमल्पत्वात्संकोचं प्रापेत्यर्थः । ननु विदितेश्वरमहिम्नः स्वयं प्रागेव प्रणतस्य जामातुराचारमात्रस्वीकारे कः संकोच इति शङ्कां निरस्यति-पूर्वमिति ॥ हि यस्मात्स हिमवान्पूर्वं प्रागेव तस्येश्वरस्य महिम्ना सामर्थ्येन दूरमत्यन्तमावर्जितं नमितमात्मशिरो न विवेद । सत्यम् ; स्वयं प्रणतत्वानुसंधानेन संकोचः, तदनुसंधानं त्वौत्सुक्यान्नास्तीति भावः॥ ५४॥

 स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रसरतामुपेत्य |
 प्रावेशयन्मन्दिरमृद्धमेन2मागुल्फकीर्णापणमार्गपुष्पम् ।। ५५ ।।

 स इति ॥ प्रीतियोगात्संतोषसंबन्धाद्विकसन्मुखश्रीर्विकसन्ती मुखश्रीर्यस्य स तथोक्तः स हिमवान् । जायां मिमीते जानातीति जामातुर्वरस्य । पृषोदरा- दिस्वात्साधुः । 'जामाता दुहितुः पतिः' इत्यमरः । अग्रेसरतां पुरोगामित्व- मुपेत्यैनं देवमागुल्फं पादग्रन्थिपर्यन्तं कीर्णानि पर्यस्तान्यापणमार्गेषु पण्य- वीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्णापणमार्गपुष्पम् । 'तद्गन्थी धुटिके गुल्फौ इत्यमरः । ऋद्धं समृद्धं मन्दिरं नगरम् । 'मन्दिरं नगरेऽगारे मन्दिरो मकरालये' इति विश्वः । प्रावेशयत् ॥ ५५ ॥

 तस्मिन्मुहूर्ते पुरसुन्दरीणामीशानसंदर्शनलालसानाम् ।
 प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ५६

 तस्मिन्निति ॥ तस्मिन्मुहूर्ते हरपुरप्रवेशसमय ईशानस्य संदर्शने लालसानां लोलुपानाम् । 'लोलुपे लोलुभो लोलो लालसो लम्पटश्च सः' इति यादवः । पुरसुन्दरीणां प्रासादमालास्वित्थं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विसृष्ट- - पाठा०-१दूरात्. २ माङ्गल्य.