पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
[ सर्गः ६
कुमारसंभवे

अथेति ॥ अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेषु अग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना क्विप् , 'अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्' (वा. ५०३४) इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुं प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच ॥ ६५ ॥ वाच ॥ ६५ ॥ उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ ६६ ॥

उपपन्नमिति ॥ इदम् ‘एते वयममी दाराः' (६।६३ ) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते। तथा हि-ते मनसः शिखराणां च समुन्नतिः सदृशी, शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति-

भावः । प्रस्तुता प्रस्तुतयोर्मनःशिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः॥६६ ॥

स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥ ६७ ॥ स्थान इति ॥ त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः । 'स्थावराणां हिमालयः' इति (१०।२५) गीतावचनात् । स्थाने युक्तम् , युक्तार्थेऽव्ययमेतत् । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । तथा हि-ते तव कुक्षिश्चराचराणां जंगमस्था- वररूपिणां भूतानां पृथिव्यादीनामाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः ॥ ६ ॥ गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्वमवालम्बिष्यथा न चेत् ॥ ६८ ॥

गामिति ॥ नागः शेषाहिणालमृदुभिर्बिसकोमलैः फणैर्गां भुवं कथमधास्यद्धारयेत् ?-

त्वमा रसातलमूलात्पातालपर्यन्तम् । विकल्पादसमासः । नावा-

नावालम्बिष्यथाश्चेत्पादैर्नावलम्बेथा यदि, त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावाल्लुप्रयोगश्चिन्त्यः ॥ ६८ ॥

पाठा०-१ मनीषणः.२ सदृशेः,