पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५९-६५]
१३१
कन्यायाचनार्थं शिवेन मुनिस्मरणम्

भवतामिह विषये प्रेस्थानम्, इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि ॥ ६ ॥


तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ।। ६२ ॥

तथापीति ॥ तथापि भवतां निःस्पृहत्वेऽपि कस्मिंश्चित् , कर्मणीति शेषः । आज्ञा 'इदं कुरु' इत्यादेशं तावदिदानी मे मह्यं दातुमर्हथ, मदनुग्रहबुद्ध्येति भावः । हि यस्माकिंकरा भृत्याः । प्रभवन्तीति प्रभविष्णवस्तेषु प्रभुषु विषये

'भुवश्च' (पा. ४।१।४७) इतीष्णुच्यत्ययः। विशेषेण नियोगो विनियोगः, प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वामिभावो निष्फल इति भावः॥ ६२ ॥ एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ६३ ॥

एत इति ॥ किंबहुना, एते वयम् , अमी दाराः, इयं कुलस्य जीवितं प्राणभूता परमप्रेमास्पदमित्यर्थः । कन्या। अत्रैषां मध्ये येन जनेन वः कार्य प्रयोजन ब्रूत । तमिति शेषः । येन सोऽपि दीयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुषु कनकरत्नादिष्वनस्थानादरः । प्रसज्यप्रतिषेधेऽपि नज्न्समास इष्यते । अदेयं न किंचिदस्तीति भावः ॥ ६३ ॥ इत्यूंचिवांस्तमेवाथ गुहामुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥ ६४</poem>}}

इतीति । इत्यूचिवानुक्तवान् । वचे क्वसुप्रत्यय: । हिमालयो हिमवान् गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तं पूर्वोक्तमेवार्थ द्विर्द्विवारम् । 'द्वित्रिचतुर्यः सुच्' (पा. ५।४।१८) इति सुच्यत्ययः । व्याजहार बभाषे ॥६॥

अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयो नोदयामासु: प्रत्युवाच स भूधरम् ॥ ६५॥</poem>}}


पाठा०-१ उक्तवान् . २ दरी. ३ हिमाचलः. ४ चोदयामासु:,

प्रेरयामासुः.

टिप्प०-1 प्रस्थानं समागमनमित्यन्ये; 'प्रशब्दस्तु प्रकर्षं च द्योतयेच्च समागमम्'

इत्युपसर्गवृत्तावित्याहुः। 2 अत्र 'वयम्' इति बहुवचनं स्वाथें ।