पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५२-५८]
१३५
मुनिदर्शनादुत्कषातिशयप्राप्तिद्योतनम्

रुपकारणयोरभावेऽपि वर्षफलरूपकार्ययोरुदयाभिधानाद्विभावना। मुनिदर्शनस्य विशिष्टवृत्तित्वेन च निरूपणाद्रूपकालंकारश्चेत्युभयोः संसृष्टिः ॥ ५४ ॥

मुढं बुद्धमिवात्मानं हैमीभूतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ।। ५५

मूढमिति ॥ भवदनुग्रहादात्मानं मां मूढं बुद्धिं विना कृतं बुद्धमिव मूढो भूत्वा यो बुद्धवास्तमिव । कर्तरि क्तः। आयसमयोविकारं हैमीभूतम् , अपि. सत्यं विहाय सौवर्णत्वं प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्वर्गमारुढमिव मन्ये, ज्ञानरूपस्थानान्यद्य मे परमुत्कृष्यन्त इति भावः ॥ ५५ ॥ अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ५६ ॥

अद्येति ॥ अद्यप्रभृति इत आरभ्य भूतानां प्राणिनां शुद्धयेऽधिगम्योऽस्मि, शुद्ध्यार्थिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः

सद्भिरध्यासितमधिष्ठितम् , जुष्टमिति यावत् । तत्तीर्थं प्रचक्षते । निपा-

निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः ॥ ५६ ॥ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः!। मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। ५७ ॥

अवैमीति ॥ हे द्विजोत्तमाः ! आत्मानं मां द्वयेनैव पूतं शुद्धमवैम्यवगच्छामि ।

केन ? द्वयेन  मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन, वो युप्माकं

धौतयोः क्षालितयोः पादयोरम्भसा च । अत्र गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं

गम्यते, तञ्च 'प्रस्तुताग्रस्तुतयोः' इति दीपकालंकारः । 'प्रेयः प्रियतराख्यानम्' 
इति लक्षणात्प्रेयोलंकार इति केचित् ॥ ५७ ॥

जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ५८ ॥

पाठा०-१ कृत. प्रचक्ष्यत. २ मर्त्यानां. ३ प्रेक्ष्याभावेन. ४ विरूपम् ; ५ द्वैरूप्यम् . टिप्प.---1 वस्तुतस्त्वत्र ‘धौतयुष्मत्पादांभसा' इत्येव समस्तमुचितम् , तथापि

युष्मच्छब्दस्य समासात् पृथग्भावो गमकत्वादुपपन्नः । अर्थप्रतीतिरेव हि शब्देन साध्या।