पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[ सर्गः ६
कुमारसंभवे

ऽधरो यस्य । प्रांशुरुग्नतः । उभयत्रापि समानम्। देवदारुवबृहन्तौ भुजौ यस्य स तथोक्तः। देवदारव एव बृहन्तौ भुजौ यस्येत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावदुरो यस्य स शिलोरस्कः शिलैवेत्यन्यत्र । 'उरःप्रभृतिभ्यः कप्' (पा.५।४।१५१) इति कप् । अतो हिमवानिति सुव्यक्तः। वर्तमाने क्तः । सत्यं स एवायं हिमवानिति तद्धर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ॥ ५१ ॥

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥ ५२ ॥<

विधीति ॥ स हिमवान्विधिना शास्त्रेण प्रयुक्तसत्कारैः कृतार्चनैः शुद्धकर्मभिरदुष्टचरितैः-

शुद्धान्तप्रवेशाहरित्यर्थः । तैर्मुनिभिः स्वयं मार्गस्य दर्शयतीति

दर्शको दर्शयिता सन् । पश्यतेय॑न्तादण्प्रत्ययः। शुद्धान्तमन्तःपुरमाक्रमयामास । प्रवेशयामासेत्यर्थः । अत्र क्रमेरगत्यर्थत्वात् 'गतिबुद्धि-' (पा.१।४।५२) इत्यादिना तैरित्यस्य न कर्मत्वम् ॥५२॥

तत्र वेत्रासनासीनान्कृतासनपरिग्रहः । इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूधेरेश्वरः ।। ५३ ।।

तत्रेति ॥ वेत्रं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान्वेत्रमयविष्टरोपविष्टानीश्वरान्प्रभून्मुनीन्भूधरेश्वरो

हिमवान् कृतासनपरिग्रहः, उपविष्टः सन्नित्यर्थः।

प्राञ्जलिः कृताञ्जलिः सन् । इत्येवं वाचमुवाच ॥ ५३ ॥

अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥

अपेति ॥ अतर्कितोपपन्नमविचारितमेवोपगतम् , अत्यन्तासंभावितमित्यर्थः । वो युष्माकं दर्शनमपमेघोदयं वर्षमनभ्रा वृष्टिस्तथाऽदृष्टं कुसुमं यस्य तत्तथोक्तं फलं च तन्मे प्रतिभाति, अतिदुर्लभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुम-

पाठा०-1 सत्कारान् . २ देशकः. ३ तान् . ४ अनासन; नीचासन. ५ पृथिवीधरः, टिप्प.--1 अयमेवार्थः कविरत्नेन शाकुन्तले वर्णितः-'उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमो भवत्प्रसादस्य पुरस्तु

सम्पदः' इति ।