पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
[ सर्गः ४
कुमारसंभवे

 विबुधैरिति ॥ दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः, अनभिज्ञत्वं च ध्वन्यते । यस्य मञ्चरणस्य परिकर्मणि प्रसाधने । 'परिकर्म प्रसाधनम्' इत्यमरः । असमाप्ते सति स्मृतोऽसि तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं रचितलाक्षारागं कुर्वेह्यागच्छ ॥ १९ ॥

 अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
 चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ॥२०॥

 अहमिति ॥ अहं पतङ्गवर्त्मना शलभमार्गेण, अग्निप्रवेशेनेत्यर्थः । 'पतङ्गः शलभे चाग्नौ मारिऽर्के शरे खगे' इति वैजयन्ती । एत्यागत्य पुनस्तेऽकाश्रय- ण्युत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरका मिनीजनैरप्स- रोगणैर्याचन्न विलोभ्यसे, विलोभयिप्यसे 'यावत्पुरानिपातयोर्लद' (पा. ३।३।४) इति लट् ॥ २० ॥

 मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
 वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥ २१ ॥

 मदनेनेति ॥ हे रमण ! त्यामनुयामि यद्यप्यनुगमिष्याम्येव । 'वर्तमानसा- मीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् । 'यद्यपीत्यवधारणे' इति केशवः। किंतु रतिर्मदनेन विनाकृता, वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षण- मात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत् ॥२१॥

 क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
 सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ २२ ॥

 क्रियतामिति ॥ परलोकेऽन्तरितस्य व्यवहितस्य, मृतस्येत्यर्थः । ते तव मयाऽन्त्यमण्डनं कथं केन प्रकारेण क्रियताम् ? क्रियतामित्यत्र कामचारे लोद बोध्यः, द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः ? अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि इह मृतशरीरमपि

नास्ति, कस्य मण्डनमिति भावः ॥ २२ ॥