पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १३-१९]
७९
रतिविलापवर्णनम्

मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । डीबन्तस्यापि 'दूती' शब्दस्य छन्दोभङ्गभयाद्रस्वः । 'अपि माषं मषं कुर्याच्छ- न्दोमङ्गे त्यजेद्विरम्' इति केचित् । 'उणादयो बहुलम्' (पा. ३॥३॥१) इति बहुलग्रहणाइस्व इति वल्लभः ॥ १६ ॥

 शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
 सुरतानि च तानि ते रहः स्मर! संस्मृत्य न शान्तिरस्ति मे ॥१७॥

 शिरसेति ॥ हे स्मर! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि 'द्वितोऽथुच्' (पा. ३ ३।८९) इत्यथुच्प्रत्ययः । सात्त्विकान्तरोपलक्षणमेतत् । 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्चर्यमित्यष्टौ सात्त्विकाः परि- कीर्तिताः ॥' इति । उपगृढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनु- भूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समान- कर्तृकत्वं दुर्घटं समानक्रियापेक्षाम्तीति केचित् ॥ १७ ॥

 रंचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
 ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ १८ ॥

 रचितमिति ॥ हे रतिपण्डित रतिकुशल ! त्वया ममाङ्गेष्वक्यवेषु स्वयं रचितं ऋतुरस्य प्राप्त आर्ववं वासन्तम् । 'ऋतोरण' (पा. ५।१६१०५) इत्यण्प्रत्ययः। कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । 'पृञ् अवस्थाने' इति धातो- स्तौदादिकाकर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते ॥ १८ ॥

 विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
 तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ १९ ॥


पाठा० -१ नवमङ्गेषु. २ विबुधैस्त्वमनङ्ग. ३ प्रतिकर्मणि. टिप्प.-1 कोकिलानां रतिदौत्ये सामर्थ्यमुक्तं कालिदासेन (रघु. ९।४७)-'त्यजत मानमलं बत विग्रहैन पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥' इति । 2 १८-१९ तमं श्लोकद्वयं मिथुनं परिकल्पितं स्वया' (खु.

८।६१-६२) इत्यादिश्लोकद्वयेन विमर्शमईति ।