पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७०) दीयते । एवमेव अन्यशब्दविषये अपि सत्यं अस्ति । चङ्गाली- गुजराती-मराठी-हिन्द्यादिभाषाः तु वस्तुतः संस्कृतस्य भ्रंशरूपाः एव। यदि संस्कृतं सरलं भविष्यति तदा तस्य प्रचारात् अन्य प्रान्तीय भाषाणां प्रचारः स्वत एव न्यूनः भविष्यति । शनैः शनैः देशे संस्कृतस्य सर्वत्र प्रचारः भूत्वा संस्कृतं एव राष्ट्रभाषा-राज- भाषा-जनभावारूपे स्थास्यति । सृष्टिकालारम्भात् संस्कृतं । ( वेदभाषा ) अस्य देशस्य धर्मभाषा विद्यते । अस्माकं भगवन्तः वेदाः अन्यानि सर्वाणि शास्त्राणि अपि अस्यां एव भापायां विद्यन्ते । अस्माकं सर्वाणि धार्मिक कृत्यानि अपि जन्मतः आरभ्य मरणपर्यन्तं अस्यां एव भाषायां भवन्ति । धर्मसम्बन्धात् तु संस्कृतस्य पठनपाठनं सर्वेषां भारतीयानां कृते आवश्यकं अनिवार्य च जायते । - धर्मसम्बन्धात् संस्कृते भारतीयानां महती श्रद्धा, प्रेम, आदर- दृष्टिः च विद्यते । अनन्तकालपर्यन्तं संस्कृतं देशस्य भाषण-- भाषा राष्ट्रभाषा च अतिष्ठत् | अस्माकं सर्व साहित्यं अस्यां एव भाषायां विद्यते । संस्कृतं भूयः राष्ट्रभाषा भाषणभाषा च भविष्यति। अस्माकं सर्व साहित्यं अध्यां एव भाषायां विद्यते । संस्कृतं भूयः राष्ट्रभाषा भाषणमापा च भवेत् अस्मिन् सम्बन्धे कस्यचित् अपि भारतीयस्य विरोधः भवितुं न अर्हति । अत एव संस्कृतस्य सरलीकरणं एव कर्त्तव्यम्" असंहितावाक्ये ' अथवा ' वाक्ये संहिता विवक्षां अपेक्षते ' द्वयों: सूत्रयोः वस्तुतः एकः भावः । न्यूनातिन्यूनं पाण्डतैः इदं तु मन्यते एव यत् सन्धिः वाक्ये वकाल्पक: इच्छाधीन अर्थात् वाक्ये क्रियेन नवा | अहं निवेदयामि यद प्रायः द्विसहस्रवर्षपर्यन्तं पण्डितैः व्याकरणनियमविरुद्धं अपि वाक्येषु (गद्ये पद्येच ) सन्धिः कृतः । का हानिः यद साम्प्रतं २५ वयपर्यन्तं व्याकरणासम्मतः