पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६६) शब्दाः यदि अव्ययरूपाः भवन्ति तदा शतृप्रत्ययान्ताः अपि अव्ययीभावं गृद्धन्तु । इदं विचारणयं विद्वद्भिः । अस्माकं तु इमानि सर्वाणि विशेष - निवेदनानि सन्ति यानि संस्कृतहिताय दीयन्ते । 1 इदं स्पप्रतया बलपूर्वकं च निवेदितं अस्माभिः भूयः अपि निवेद्यते अत्र यत् संस्कृतं वैदिकभाषातः निस्सारितं विद्भिः। अस्य निवेदनस्य अयं आशयः। वेदभापा तु सृपयाख्यकालात् विद्यते । यदा यदा हि सृष्टिः भवति तदा वेदभाषा ईश्वरज्ञानो- पेता देवताभिः दीयते जीवमात्र कल्याणाय विशेषतया मानवीय सृष्टेः हिताय । लोके वेदभापातः संस्कृता भाषा संस्कृतम्' नाम आचार्यैः विद्वद्भिः च निस्सारिता । संस्कृतायाः भाषायाः अर्थः अयं यत् इयं भाषा निर्मिता अर्थात् प्रथमं लौकिक- संस्कृतस्य व्याकरणं रचितं अनन्तरं भाषाप्रचारः अभवत् । वैदिकभाषा तु आदितः आसीत् । ( अस्माकं आचार्यैः द्वो विभागौ कृतौ । वेदः, लोकश्च इति । वैदे वेदभापा प्रयुज्यमाना स्यात्, लोके सांस्कृता भाषा; वेदभापातः एका निर्मिता भाषा, प्रयोक्तव्या स्यात् । प्रथमं संस्कृतस्य नियमाः निर्मिताः अनन्तरं तद्रूपा भाषा संस्कृतम्' नाम प्रचालिता । मुख्यतः कृत्रिमभाषा इयम् । सांस्कृता भाषा पूर्णतया स्वाभाविकी भाषा कथयितुं न शक्यते । यदि काचित् भाषा प्रथमतः विद्यमाना स्यात्, तथा तस्याः व्याकरणं अनन्तरं निर्मितं स्यात् तदा तद स्वाभाविकी भाषा, यत् यत् संस्कृते स्वाभाविकरूपेण विद्यते तत्सर्व वेदभाषायाः | यदि किञ्चित् वस्तु स्वप्रकृति, स्वभावं, 'स्वस्रोतं प्रति' चलति, तत् एव जीवितुं शक्नोति अन्यथा नहि । अस्य अयं अर्थः यत् संस्कृताभाषा शनैः शनैः वेदमापातुल्या स्यात् अर्थात् स्वस्रोतः प्रति शनैः शनैः गच्छत् तदा