पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६०) (अ) बम्बय्यां भाषमाणः श्री हाशिमसाइवः उक्तवान्- " अहं भारताफगानिस्तानयोः सांस्कृतिक सम्बन्धं दृढयितुं आगतः अस्मि । भारताफगानिस्तानयोः निवासिनः आर्य्याः सन्ति । द्वयोः देशयोः प्रधाना भाषा संस्कृतम् । अस्यां अवस्थायां उभयोः देशयोः सम्बन्धेन दृढेन भवितव्यं एव" (९) संस्कृतं जगतः भाषा न केवलं एशियायाः । कांगडी-गुरुकुले डा० लुई रणोः भाषणम्- पैरिसविश्वविद्यालयस्य भारतीय विद्याभवन प्रधानाचार्यः, प्रख्यात पुरातत्त्वमर्मशः डा० लुई रेणुमहोदयः भारतीय विश्व- विद्यालयेषु भाषमाणः क्रमतः विख्यातं कांगडीस्थं गुरुकुलं इयाय | अनन्तरं अध्यापकानां छात्राणां च एकस्यां सभायां भाषमाणः माननीय डा० लुई रेणुमहोदयः उक्तवान् 36 अहं भारतस्य अनेकेषु विश्वविद्यालयेषु गतः शिक्षास्थानेषु चं, परं प्रचलद्राजनीतिविषये निरर्गलं सहजतया संस्कृतेन वार्तालाप, वाद विवादंच कुर्वतः क्वचित् अपि न छात्रान् नच अध्यापकान अवलोकितवान् | यदि भारतागमनसमये एव कश्चित् मह्यं अमु समाचारं अदास्यत् यत् कांगडीगुरुकुले संस्कृतं इत्थं भाग्यते तर्हि भारते व्यतीतेपु षण्मासंपु सार्द्धक- मासं पतत्कृते अवश्यं अदास्यम् । अत्र छात्रः अध्यापकैः सह चार्त्तालापं विधाय संस्कृतभाषणयोग्यतां अवर्द्धयिष्यम् । गुरु- फुले मम भारतयात्रा समाप्ति एति । भारते संस्कृतभाषायाः सेवायां मम जीवनस्य श्रेष्ठतमः भागः व्यतीतः । अधुना चतुं शक्तः अस्मि यत् अद्य योरोपः भौतिकवादे निमनः अस्ति दुर्वलां संस्कृति दुर्बलान् विचारान् च आश्रित्य भ्रमितः | आस्मैन्