अवरुग्णेति ॥ सोऽर्जुनः पुरोऽग्रेऽवरुग्णतुङ्गसुरदारुतरौ भग्नोन्नतदेवदारुद्रुमे बलीयसि
बलवत्तरे । मत्वन्तादीयसुनि मतुपो लुक् । सुरसरित्पयसां निचये पूरे विषये
वेतसवनेन वानीरवनेनाचरिताम् । 'अथ वेतसे । रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः'
इत्यमरः । समृद्धिकरीं श्रेयस्करीम् । लोके यथादृष्टामित्यर्थः । प्रणतिं ददर्श ।
या सर्वलोकदृष्टान्तभूतेति भावः ।।
प्र[१]बभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् । |
प्रवभूवेति ॥ सोऽर्जुनः परितः सरोजरजसा कमलरेणुनारुणितं पाटलितम् । उत्तरीयं च कुसुमादिनारुणितं भवति । संहतिमन्नीरन्ध्रं तरङ्गरङ्गि वारितरङ्गशोभि सरिदुत्तरीयं स्तनांशुकमिव स्थितं कलहंसकुलं कादम्बकुलमवलोकयितुमलमत्यर्थं न प्रबभूव न शशाक । तत्सौन्दर्योद्वेलत्वादिति भावः ।।
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रु[३]तिभिः । |
दधतीति । सोऽर्जुनः क्षतीः क्षतानि दधति धारयति । कुतः। परिणतास्तिर्यग्दन्त- प्रहारिणो द्विरदा यस्मिंस्तस्मिन् । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । मदस्रुतिभिर्मुदितालियोषिति रोधस्यधिकां धृतिं प्रीतिं बबन्ध । निश्चली- कृतवानित्यर्थः । तथाहि । महान् रुजन्पीडयन्नपि महते गुणायोत्कर्षाय भवति । महत्कृता पीडापि शुभावहैवेत्यर्थः। तद्युक्तं गजरुग्णस्यापि रोधसःप्रीतिकरत्वमिति भावः ।।
अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः । |
अन्विति ॥ सोऽर्जुनोऽनुहेमवप्रं कनकसानुसमीपे । समीपार्थेऽव्ययीभावः । अरुणैः। कनककान्त्युपरञ्जनादिति भावः । पृथुभिरूर्मिभिः समतां तुल्यरूपतां गतम् । सादृश्याद्दुर्विवेच्यमित्यर्थः । सह भूतं सहचरं प्रियम् । सहशब्दस्य पचाद्यजन्तेन चरशब्देन समासः । करुणैर्दीनै रुतैः कूजितैरनुवघ्नतीमन्विष्यन्तीं रथाङ्गनामवनितां चक्रवाकीमभिननन्द । प्रकृष्टप्रेमदर्शनात्कस्य नानन्द इति भावः । अत्र तावदूर्मीणां स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणालंकार:'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाश्रयात्' इति लक्षणात् । तन्मूला चेयं चक्रवाक्याः स्वकान्ते तरङ्गभ्रान्तिरिति तद्गुणम्रान्ति- मतोरङ्गाङ्गिभावेन संकरः ॥
सितवाजिने निजगदू रुचयश्चलवीचिराग़रचनापटवः । |