इति डप्रत्ययः । उपपदसमास उत्तरपदसमासश्च । तामभितोऽभिमुखमारुरोह ।
'समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः' इत्यमरः । प्रमिताक्षरावृत्तम्---'प्रमिताक्षरा
सजससैरुदिता' इति लक्षणात् ॥
अथास्य कार्यसिद्धिनिमित्तानि सूचयन्मार्गं वर्णयति--
तमनिन्द्यबन्दिनं इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः । |
तमिति ॥ विहिता अलिनिक्वणा जयध्वनय इव यैस्ते तथोक्ताः। पवनेन वायुनेरिता नुन्ना अतएवाकुला लोल विजिह्मा वक्राश्च शिखाः शाखाग्राणि येषां ते तथोक्ताः । 'शिखा ज्वाला केकिमौल्योः शिखाशाखाग्रमौलिषु' इति वैजयन्ती । जगतीरुहो भूरुहः। क्विप् । अनिन्द्या अनवद्या ये बन्दिनः स्तुतिपाठकास्त इव । तमिन्द्रसुतमर्जुनं कुसुमैर- वचकरुः । अभिववृषुरित्यर्थः । 'ऋच्छत्यॄताम्' इति गुणः । अत्र किरतेर्वृष्ट्यर्थत्वात्कु- सुमानां करणत्वम् । विक्षेपार्थत्वे तु कर्मत्वमेव । यथा--'कटाक्षान्वामा किरति' इति । दृश्यते च धातूनामर्थभेदात्कारकव्यत्ययः। यथा सिञ्जतेः क्षरणार्द्रीकरणयोरर्थयोर्द्रव द्रव्यस्य कर्मत्वकरणत्वे । यथा- 'मेघोऽमृतं सिञ्चति गौः पयश्च', 'सिञ्चतीवामृतैर्वपुः' इति । अत्र वाक्ये समासगतयोरुपमयोः साध्यसाधनभावादङ्गाङ्गिभावेन संकरः॥
अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः । |
अवधूतेति ॥ अवधूताः पङ्कजपरागकणा यैस्ते तथोक्ताः इति सौरभ्योक्तिः । तनूर्जाह्नव्याः सलिलवीचीर्भिन्दन्तीति तथोक्ता इति शैत्योक्तिः। सुखयन्तीति सुखाः । पचाद्यच् । सुखस्पर्शा इति मान्द्योक्तिः । मरुतो वातास्तमर्जुनं सुहृदः सखायमिवाभिमु- खमेत्यागत्य परिरेभिर आलिङ्गितवन्तः।।
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः। |
उदितेति ॥ उदितोपलेषून्नतपाषाणेषु स्खलनेन प्रतिघातेन संवलिताश्चूर्णिताः । अतस्तूर्यघोष इव घुमघुमायमाना इत्यर्थः । स्फुटैर्हँसानां सारसानां च विरावैर्युज्यन्त इति तथोक्ताः। क्विप् । अनुवप्रमपाम् । अन्तः पतन्तीनामिति शेषः ध्वनयोऽस्यार्जुनस्य मङ्गलं प्रयोजनमेषां ते माङ्गलिकाः । 'प्रयोजनम्' इति ठञ् । तैस्तूर्यैः कृतां मुदं हर्षं प्रतेनुः । अत्रान्यस्यान्यकार्यकारणासंभवात्तूर्यकृतमुत्सदृशीं मुदमिति प्रतिविम्बेनाक्षेपा- न्निदर्शनालंकारः॥
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । |
- ↑ ।